भीष्मस्य पञ्चकं चक्रुः सम्यक्छ्रद्धासमन्विताः
ततःप्रभृति तत्कुण्डं विख्यातं धरणीतले
यः स्नानं सर्वदा तत्र ब्राह्मणः प्रकरोति वै
इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्यवर्णनंनाम द्विनवतितमोध्यायः
सूत उवाच अथान्यदपि तत्रास्ति गोमुखाख्यं सुशोभनम्
पुरासीदत्र गोपालः कश्चित्कुष्ठसमावृतः
कस्यचित्त्वथ कालस्य तेन मार्गेण गोकुलम्
एकादश्यां तृषार्त्तं च भास्करे वृषसंस्थिते नीलमालोकितं तत्र दूरादेत्य प्रहर्षिता
दन्तैर्द्रुतं समुत्पाट्य यावदाकर्षति द्विजाः
अथास्वाद्य तृणं तस्मात्तृषार्ता च शनैःशनैः
तस्या वेगेन तत्तोयं पिबन्त्यास्तत्रभूतले
ततोऽन्याः शतशो गावः पपुस्तोयं मुनिर्मलम्
यथायथा गता गावस्तत्र तोयं पिबंति ताः
ततश्च गोकुले कृत्स्ने जाते तृष्णाविवर्जिते ६.९३.
अंगं प्रक्षाल्य पीत्वापो यावन्निष्क्रामति द्रुतम्
ततो विस्मयमापन्नो गत्वा स्वीयं निकेतनम्
तृणस्तम्बं यथा धेन्वा तत्रोत्पाट्य प्रशक्तितः
भवंति च विनिर्मुक्ता रोगैः पापैश्च तत्क्षणात्
ततःप्रभृति तत्ख्यातं तीर्थं गोमुखसंज्ञितम्
अथ भीतः सहस्राक्षस्तद्दृष्ट्वा स्वर्गदायकम्
तस्मात्स्थानाद्विनिष्क्रांतं सूतपुत्र वदस्व नः
पुत्र शोकाभिभूतेन तोषितो गरुडध्वजः
तस्य पुत्रः सुविख्यातः सुवर्चा इति विश्रुतः ६.९३.
पूर्वकर्मविपाकेन स बालोऽपि च तत्सुतः
अथ तत्कामिकं क्षेत्रं स गत्वा पृथिवीपतिः
ततस्तुष्टिं गतस्तस्य स्वयमेव जनार्दनः
परितुष्टोऽस्मि ते वत्स तस्माच्चित्तेऽभिवांछितम्
बालोऽपि तत्कुरुष्वास्य कुष्ठव्याधिपरिक्षयम्
ब्रह्मण्यश्च कृतज्ञश्च सर्वशास्त्रार्थपारगः
कस्यचित्त्वथ कालस्य ब्राह्मणोऽनेन घातितः