तस्यैव निर्झरस्याथ तटस्थो वाक्यमब्रवीत्
तेनैव न करोत्येष वृष्टिं मर्त्त्ये सुरेश्वरः
अतोऽहं भूतलं त्यक्त्वा प्रविष्टो निर्झरे त्विह
देवापिर्नाम धर्मज्ञः क्षत्रियाणां यशस्करः
प्रतीपस्तत्सुतः साधुः सर्वशीलवतां वरः संत्यक्त्वा जगृहे राज्यं शंतनुस्तत्सुतोऽवरः
एतस्मात्कारणाद्राज्ये तस्य वृष्टिर्निराकृता
द्रुतमाज्ञापयामास वृष्ट्यर्थं जगतीतले
अथ शक्रसमादिष्टा विद्युत्वन्तो बलाहकाः पूरयामासुरत्युग्रा द्युतिमन्तो महीपते
ततोऽगमत्परां तुष्टिं भगवान्हव्यवाहनः 7.3.30.
देवा ऊचुः यत्ते प्रियं तदस्माकं सुशीघ्रं हि निवेदय
ख्यातिं यातु धरापृष्ठे युष्माकं हि प्रसादतः
अत्र स्नातो नरः सम्यगग्निलोकं प्रयास्यति
यस्तिलान्दास्यति नरस्तीर्थेऽस्मिन्सुसमाहितः
वह्निश्च भगवान्राजन्यथापूर्वमवर्तत
यश्चैत्पठते नित्यं प्रातरुत्थाय चोत्तमम्
अहोरात्रकृतात्पापात्स शृण्वन्नपि मुच्यते
यत्र स्नातो नरः सम्यङ्मुच्यते ब्रह्महत्यया
पुराऽऽसीत्पार्थिवोनाम इंद्रसेनो महीपतिः पतिव्रता पतिप्राणा सदा पत्युः प्रिये स्थिता
कस्यचित्त्वथ कालस्य स राजा सपरिग्रहः
तं निहत्य धनं भूरि गृहीत्वा प्रस्थितो गृहम्
सुनन्दां ब्रूहि गत्वा त्वमिन्द्रसेनो हतो रणे
यदि सा निश्चयं गच्छेन्मरणं प्रति भामिनी
एवमुक्तो गतो दूतस्तत्क्षणान्नृपसत्तम
अथ तस्य वचः श्रुत्वा सुनंदा चारुहासिनी
यस्मिन्काले मृता सा तु सुनन्दा शीलमंडना
अथापश्यद्द्वितीयां स च्छायां गात्रस्य चोपरि 7.3.31.
तेजोहीनं सुदुर्गंधि विवर्णं नृपसत्तम
विनाशं दुःखशोकार्तः करुणं पर्यदेवयत्
ब्राह्मणानां समादेशात्तथा यात्रापरोऽभवत् वाराणस्यां गतः पूर्वं तत्र दानं ददौ बहु
कपालमोचने तीर्थे सर्वपापप्रणाशने