हेलोल्लसत्समुत्साहशक्तिं व्याप्तजगत्त्रयाम्
पवनांदोलितांभोजदलपर्वांतवर्त्तिनाम्
नमः सूर्य्यात्मने तुभ्यं संवित्किरणमालिने
नमस्तस्मै यमवते योगिनां गतये सदा
यज्ञाय भुक्तहविष ऋग्यजुःसामरूपिणे 2.8.6.
शांताय धर्मनिधये क्षेत्रज्ञायामृतात्मने घोराय मायाविधये सहस्रशिरसे नमः
योगनिद्रात्मने नाभिपद्मोद्भूतजगत्सृजे
कार्यमेयाय बलिने जीवाय परमात्मने
दृप्ताय सिंहवपुषे दैत्यसंहारकारिणे
संसारकारणाज्ञानमहासंतमसच्छिदे
शान्ताय शान्तकल्लोलकैवल्यपददायिने
इन्दीवरदलश्यामं स्फूर्जत्किंजल्कविभ्रमम्
ववर्ष दृष्टिसुधया सर्वान्देवान्कृपान्वितः
दैतेयैर्विक्रमाक्रान्तं पदं समरदर्पितैः
सबलैर्बलहीनानां प्रतापो विजितः परैः 2.8.6.
अयोध्यानगरे गत्वा करिष्ये तप उत्तमम्
भवन्तोऽपि तपस्तीव्रं कुर्वंत्वमलमानसाः
अगस्त्य उवाच इत्युक्त्वांतर्दधे देवान्देवो गरुडवाहनः
गुप्तो भूत्वा यदा विद्वन्सुरतेजोभिवृद्धये
आगतस्य हरेः पूर्वं यत्र हस्ततलाच्च्युतम्
तयोर्दर्शनमात्रेण सर्वपापैः प्रमुच्यते
जित्वा दैत्यान्रणैः सर्वान्संप्राप्य स्वपदान्यथ
ततः सर्वे समेत्याशु बृहस्पतिपुरस्सराः हरिं द्रष्टुमथागच्छन्नयोध्यायां समुत्सुकाः
आगत्य च ततः श्रुत्वा नानाविधगुणादरम् हरिमेकाग्रमनसा ध्यायन्तो ध्याननिष्ठिताः
तानागतान्समालोक्य पदभक्त्या कृतानतीन् 2.8.6.
अधुना भवतामिच्छां कां करोमि सुरा अहम्
देवा ऊचुः भगवन्देवदेवेश त्वया संप्रति सर्वशः
तथापि सर्वदा भाव्यं नित्यं देव त्वया विभो
एवमेव सदा कार्यं शत्रुपक्षविनाशनम्
श्रीमतां तेजसो वृद्धिं करिष्यामि सदासुराः