त्वमग्ने सर्वभूतानामन्तश्चरसि सर्वदा ६.९०.
तस्मात्कुरु प्रसादं त्वं सर्वेषां च दिवौकसाम्
सूत उवाच प्रोवाच प्रणयात्कोपं कृत्वा नत्वा च पद्मजम्
अहं कोपं समाधाय शक्रस्योपरि पद्मज
अनावृष्ट्या महेन्द्रस्य संजातश्चौषधीक्षयः
एतस्मात्कारणान्नष्टो न कामान्न च संभ्रमात्
तच्छ्रुत्वा स चतुर्वक्त्रः शक्रमाह ततः परम्
ज्येष्ठं भ्रातरमुल्लंघ्य शंतनुः पृथिवीपतिः
एतस्मात्कारणाद्वृष्टिः संनिरुद्धा मया प्रभो
तस्याक्रमस्य संप्राप्तं पापं तेन महीभुजा
मद्वाक्याद्याति नो नाशं यावदेतज्जगत्त्रयम् ६.९०.
एतस्मिन्नंतरे शक्र आदिदेश त्वरान्वितः
तेऽपि शक्रसमादेशात्समस्तधरणीतलम्
अथाब्रवीत्पुनर्ब्रह्मा देवैः सार्धं हुताशनम् सांप्रतं त्वं वरं मत्तः प्रार्थयस्वाभिवांछितम्
अयं जलाशयः पुण्यो मन्नाम्ना पृथिवीतले
अत्र यः प्रातरुत्थाय स्नात्वा श्रद्धा समन्वितः तस्य तुष्टिस्त्वया कार्या द्रुतं मद्वाक्यतः प्रभो
अत्र यः प्रातरुत्थाय स्नात्वा वै वेदविद्द्विजः
अग्निष्टोमस्य यज्ञस्य सकलं लप्स्यते फलम्
एवमुक्त्वा स भगवान्विरराम पितामहः
एवं तत्र समुद्भूतं वह्नितीर्थं महाद्भुतम्
ममातृप्तस्य लोकेश तावद्द्वादशवत्सरान् ६.९०.
भविष्यंति तथा यज्ञा कालेन महता विभो
thumb|400px|वसुधारा, स्वयम्भु वसोर्द्धाराप्रदानेन ते त्वां नक्तंदिनं सदा
तर्पयिष्यंति सद्भक्त्या ततः पुष्टिमवाप्स्यसि
संक्रांति समये येषां वसोर्धाराप्रदायिनाम्
तेषां पापं च यत्किंचिज्ज्ञानतोऽज्ञानतः कृतम्
त्वयि तुष्टिं गते पश्चाद्भविष्यति महीपतिः
स कृत्वा श्रद्धया युक्तः सत्रं द्वादशवार्षिकम् कलशस्य च वक्त्रेणाविच्छिन्नेन दिवानिशम्
ततस्तुष्टिं परां प्राप्य परां पुष्टिमवाप्स्यसि
अद्यप्रभृति यत्किंचित्कर्म चात्र भविष्यति संभविष्यति तत्सर्वं तव तृप्तिकरं परम्