एवं शप्त्वा गजं शीघ्रं नष्टो वैश्वानरः पुनः ६.९०.
अथ दृष्टः शुकस्तैश्च भ्रममाणैर्महावने
शुक उवाच एतस्मिंस्तिष्ठते वह्निरश्वत्थे सुरसत्तमाः
अत्रस्थो यः कुलायो म आसीच्छिशुसमन्वितः
तच्छ्रुत्वा तैः सुरैः सर्वैः शमीगर्भः स तत्क्षणात्
अहं यस्मात्त्वया पाप देवानां संनिवेदितः
एवमुक्त्वा जातवेदा देवादर्शनवांछया
जलाशयं सुगम्भीरं पूर्वोत्तरदिक्संस्थितम्
एतस्मिन्नंतरे तत्र मत्स्यकच्छपदर्दुराः
अथ चैकोऽर्धनिर्दग्ध आयुःशेषेण दर्दुरः
पृष्टश्च ब्रूहि चेद्भेक त्वया दृष्टो हुताशनः ६.९०.
अस्मिञ्जलाशये वह्निः सांप्रतं पर्यवस्थितः
अस्माकं निधनं प्राप्तं कुटुम्बं सुरसत्तमाः
तच्छ्रुत्वा ते सुराः सर्वे सर्वतस्तं जलाशयम्
यस्माद्भेक त्वया मूढ देवेभ्योऽहं निवेदितः
एवमुक्त्वा ततः स्थानात्ततो वह्निर्विनिर्गतः
भोभो वह्ने किमर्थं त्वं देवान्दृष्ट्वा प्रगच्छसि
त्वय्याहुतिर्हुता सम्यगादित्यमुपतिष्ठते
तस्माद्धाता विधाता च त्वमेव जगतः स्थितः
अग्निष्टोमादिका यज्ञास्त्वयि सर्वे प्रतिष्ठिताः
त्वमग्ने सर्वभूतानामन्तश्चरसि सर्वदा ६.९०.
तस्मात्कुरु प्रसादं त्वं सर्वेषां च दिवौकसाम्
सूत उवाच प्रोवाच प्रणयात्कोपं कृत्वा नत्वा च पद्मजम्
अहं कोपं समाधाय शक्रस्योपरि पद्मज
अनावृष्ट्या महेन्द्रस्य संजातश्चौषधीक्षयः
एतस्मात्कारणान्नष्टो न कामान्न च संभ्रमात्
तच्छ्रुत्वा स चतुर्वक्त्रः शक्रमाह ततः परम्
ज्येष्ठं भ्रातरमुल्लंघ्य शंतनुः पृथिवीपतिः
एतस्मात्कारणाद्वृष्टिः संनिरुद्धा मया प्रभो
तस्याक्रमस्य संप्राप्तं पापं तेन महीभुजा