अतः कृच्छ्रं गतः सर्वो लोकः क्षुत्परिपीडितः
संत्यक्ताः पतिभिर्नार्यः पुत्राश्च पितृभिर्निजैः ६.९०.
दैवयोगात्क्वचित्किंचित्कस्यचिद्यदि दृश्यते
शुष्का महीरुहाः सर्वे तथा ये च जलाशयाः
एवं वृष्टेः क्षये जाते नष्टे धर्मपथे तथा
न कश्चिद्यजनं चक्रे न स्वाध्यायं न च व्रतम्
एतस्मिन्नेव काले तु विश्वामित्रो महामुनिः
परिभ्रमंस्ततः प्राप्य कंचिद्ग्रामं निरुद्वसम्
अथ तत्र भ्रमन्प्राप्तश्चंडालस्य निवेशनम्
अथापश्यन्मृतं तत्र सारमेयं चिरोषितम्
ततश्च श्रपयामास सुसमिद्धे हुताशने ६.९०.
समादाय पितॄंस्तर्प्य यावदग्नौ जुहोति सः
गतश्चादर्शनं सद्यः सर्वेषां क्षितिवासिनाम्
एतस्मिन्नंतरे वह्नौ मर्त्यलोकाद्विनिर्गते
एतस्मिन्नंतरे देवा ब्रह्मविष्णुपुरः सराः
अथ तैर्भ्रममाणैश्च प्रदृष्टोऽभूद्गजो महान्
अथ देवा गजं दृष्ट्वा पप्रच्छुस्त्वरयाऽन्विताः
वंशस्तंबेऽत्र संकीर्णे संप्रविष्टो हुताशनः
अथ तैर्वेष्टितस्तस्मिन्वंशस्तंबे हुताशनः
यस्मात्त्वयाहमादिष्टो देवानां वारणाधम
एवं शप्त्वा गजं शीघ्रं नष्टो वैश्वानरः पुनः ६.९०.
अथ दृष्टः शुकस्तैश्च भ्रममाणैर्महावने
शुक उवाच एतस्मिंस्तिष्ठते वह्निरश्वत्थे सुरसत्तमाः
अत्रस्थो यः कुलायो म आसीच्छिशुसमन्वितः
तच्छ्रुत्वा तैः सुरैः सर्वैः शमीगर्भः स तत्क्षणात्
अहं यस्मात्त्वया पाप देवानां संनिवेदितः
एवमुक्त्वा जातवेदा देवादर्शनवांछया
जलाशयं सुगम्भीरं पूर्वोत्तरदिक्संस्थितम्
एतस्मिन्नंतरे तत्र मत्स्यकच्छपदर्दुराः
अथ चैकोऽर्धनिर्दग्ध आयुःशेषेण दर्दुरः