एवमुक्त्वा ततस्तस्या मंत्रमार्गं यथोचितम्
ततो विसर्जयामास दत्त्वा छत्रादिभूषणम्
कन्यकाः पूजयिष्यंति पादुके ते सुशोभने
कौमारब्रह्मचर्य्येण भविष्यत्यन्वयः कथम् ६.८९.
श्रीभगवानुवाच यस्यायस्याः प्रसन्ना त्वं कन्यकाया वदिष्यसि
एवं चान्या महाभागे पारंपर्येण कन्यकाः ४२ ततः सा तां समासाद्य पादुकासंभवां गुहाम्
पादुकाभ्यां नरः पूजां प्रकरोति समाहितः
तस्मात्सर्वप्रयत्नेन कन्याहस्तेन पादुके
वांछद्भिः शाश्वतं सौख्यमिह लोके परत्र च
एतद्वः सर्वमाख्यातं माहात्म्यं पादुकोद्भवम्
यश्चैतच्छृणुयाद्भक्त्या चतुर्दश्यां समाहितः
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्रीमातुः पादुकामाहात्मवर्णनंनामैकोननवतितमोऽध्यायः
न तयोः कथितोत्पत्तिर्माहात्म्यं च महामते
तस्माद्विस्तरतो ब्रूहि एकैकस्य पृथक्पृथक्
अग्नितीर्थसमुद्भूतां सर्वसौख्यावहां शुभाम्
सोमवंशसमुद्भूतः प्रतीपो नाम भूपतिः
तस्य पुत्रद्वयं जज्ञे सर्वलक्षणलक्षितम्
अथो शिवपदं प्राप्ते प्रतीपे नृपसत्तमे
ततश्च मंत्रिभिः सर्वैः शंतनुस्तस्य चानुजः
एतस्मिन्नंतरे शक्रो न ववर्ष क्रुद्धाऽन्वितः
अतः कृच्छ्रं गतः सर्वो लोकः क्षुत्परिपीडितः
संत्यक्ताः पतिभिर्नार्यः पुत्राश्च पितृभिर्निजैः ६.९०.
दैवयोगात्क्वचित्किंचित्कस्यचिद्यदि दृश्यते
शुष्का महीरुहाः सर्वे तथा ये च जलाशयाः
एवं वृष्टेः क्षये जाते नष्टे धर्मपथे तथा
न कश्चिद्यजनं चक्रे न स्वाध्यायं न च व्रतम्
एतस्मिन्नेव काले तु विश्वामित्रो महामुनिः
परिभ्रमंस्ततः प्राप्य कंचिद्ग्रामं निरुद्वसम्
अथ तत्र भ्रमन्प्राप्तश्चंडालस्य निवेशनम्
अथापश्यन्मृतं तत्र सारमेयं चिरोषितम्