ह्रियंते बालका रात्रौ छिद्रं प्राप्य सहस्रशः
प्रसादः क्रियतां तस्माद्ब्राह्मणानां महात्मनाम्
तेषां तद्वचनं श्रुत्वा ततोंऽबा कृपयान्विता
इमे मत्पादुके दिव्ये गुहामध्यगते सदा ६.८९.
या काचिल्लौल्यमास्थाय निष्क्रमिष्यति मोहतः
पूजां को वात्र चाहारस्तस्माद्ब्रूहि सुरेश्वरि
पूजां सम्यक्करिष्यंति सर्वासां भक्तिसंयुताः
पादुके मे प्रपूज्यादौ मांस मद्यादिभिः क्रमात्
ततस्तथेति ताः प्रोच्य गुहामध्ये व्यवस्थिताः
ततस्तत्र समागत्य पुरुषा अपि दूरतः प्रयांति च परां सिद्धिं जन्म मृत्युविवर्जिताम्
एतस्मिन्नंतरे नष्टा अग्निष्टोमादिकाः क्रियाः ॥ तीर्थयात्राव्रतान्येव संयमा नियमाश्च ये
ये चापि ब्राह्मणाः शांताः सदा मद्यस्य दूषणम्
तर्पयंति तथा मांसैस्त्यक्ताशेषमखक्रियाः
एतस्मिन्नंतरे भीताः सर्वे देवाः सवासवाः ६.८९.
प्रोचुर्महेश्वरं गत्वा विनयावनताः स्थिताः
देवा ऊचुः हाटकेश्वरजे क्षेत्रे पादुके तत्र संस्थिते
ब्राह्मणा अपिदेवेश मद्यमांसेन भक्तितः
नष्टा धर्मक्रिया सर्वा मर्त्यलोकेत्र सांप्रतम्
तस्मात्त्वं कुरु देवेश यथा स्यात्पादुकाक्षयः
जगन्माताऽक्षया साक्षान्ममा पि जननी च सा
तत्कथं संक्षयस्तस्याः कर्तुं केनापि शक्यते
परं तत्र करिष्यामि सुखोपायं सुरेश्वराः
एवमुक्त्वा ततो ध्यानं चक्रे देवो महेश्वरः
तस्यांतर्गतमासीनमंगुष्ठाग्रमितं शुभम् ६.८९.
तस्यैवं ध्यायमानस्य तृतीयनयनात्ततः
अथ सा प्राह तं देवं प्रणिपत्य महेश्वरम्
श्रीमातुर्जगतां मुख्ये ताभ्यां पूजां त्वमाचर
कन्यकां संपरित्यज्य तवान्वयविवर्द्धिताम्
कौमारब्रह्मचर्य्येण त्वयापि च सुभक्तितः
तव पूजा करिष्यन्ति ये नरा भक्तितत्पराः