तैलाभ्यंगं नरः कृत्वा यश्च स्नानं करोति न
उच्छिष्टो यः पुमांस्तिष्ठेद्यो वा चत्वरमध्यगः
रजस्वलां व्रजेद्यो वा पुरुषः काममोहितः
दक्षिणाभिमुखो रात्रौ यश्च स्नाति विमूढधीः
उदङ्मुखश्च यो रात्रौ दिवा वा दक्षिणामुखः
यः कुर्याद्रजनीवक्त्रे दधिसक्तुप्रभक्षणम्
परिवार्य तदा तस्थुः संप्रहृष्टेन चेतसा
एतस्मिन्नंतरे राजा चमत्कारः प्रतापवान्
ततः प्रभृति ते ख्याते क्षेत्रे तत्र महोदये ६.८८.
यः पुमान्प्रातरुत्थाय ताभ्यां पश्यति चाननम्
वृद्ध्यादौ वाथ चांते वा ताभ्यां पूजां करोति यः
यात्राकाले पुमान्यश्च ताभ्यां पूजां समाचरेत्
सदाष्टम्यां चतुर्दश्यां यस्ताभ्यां बलिमाहरेत्
यो महानवमीसंज्ञे दिवसे श्रद्धयान्वितः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येंऽबावृद्धामाहात्म्यवर्णनंनामाष्टाशीतितमोऽध्यायः
बालकानां क्षयो जज्ञे ब्राह्मणानां गृहेगृहे
तरुणानां विशेषेण चमत्कारपुरोत्तरे
ततस्ते ब्राह्मणाः सर्वे ज्ञात्वा छिद्रसमुद्भवम्
अम्बावृद्धे समासाद्य पूजयित्वा प्रयत्नतः
रक्षार्थं सर्वविप्राणां चमत्कारेण भूभुजा
ह्रियंते बालका रात्रौ छिद्रं प्राप्य सहस्रशः
प्रसादः क्रियतां तस्माद्ब्राह्मणानां महात्मनाम्
तेषां तद्वचनं श्रुत्वा ततोंऽबा कृपयान्विता
इमे मत्पादुके दिव्ये गुहामध्यगते सदा ६.८९.
या काचिल्लौल्यमास्थाय निष्क्रमिष्यति मोहतः
पूजां को वात्र चाहारस्तस्माद्ब्रूहि सुरेश्वरि
पूजां सम्यक्करिष्यंति सर्वासां भक्तिसंयुताः
पादुके मे प्रपूज्यादौ मांस मद्यादिभिः क्रमात्
ततस्तथेति ताः प्रोच्य गुहामध्ये व्यवस्थिताः
ततस्तत्र समागत्य पुरुषा अपि दूरतः प्रयांति च परां सिद्धिं जन्म मृत्युविवर्जिताम्