अथांबा चैव वृद्धा च वैधव्यं प्राप्य दुःखदम् ६.८८.
देव्या आराधने यत्नं कृतवत्यौ ततः परम्
यावद्वर्षशतं साग्रं न च तुष्टा सुरेश्वरी
मंत्रैराथर्वणैर्विप्राः क्षुरिकासूक्तसंभवैः
कृतवत्यौ ततो होमं सुसमिद्धे हुताशने
श्वेतवस्त्रा विनिष्क्रांता नारी बालार्कसव्रिभा ॥ तथान्या च सुनेत्रास्या तप्तहाटकसन्निभा
तस्मात्कुण्डाद्विनिष्क्रांता धृतखड्गा भयावहा
प्रोचतुस्ते वरं हृत्स्थं प्रार्थ्यतामिति दुर्लभम्
निहतः संगरे क्रुद्धैर्यवनैः कालपूर्वकैः
युष्मदीय प्रसादेन यथा तेषां परिक्षयः
स्थातव्यं च तथात्रैव उभाभ्यामपि सादरम् ६.८८.
तयोस्तद्वचनं श्रुत्वा उभे ते देवते ततः
एतस्मिन्नंतरे तस्मात्कुण्डाच्छतसहस्रशः
एका गजमुखी तत्र तथान्या तुरगानना
तिर्यञ्च वपुषश्चान्या वक्त्रैर्मानुषसंभवैः
गुह्य स्थानस्थितैर्वक्त्रैरेकाश्चान्या हृदिस्थितैः
एकहस्ता द्विहस्ताश्च पञ्चहस्तास्तथापराः
बहुपादा विपादाश्च एकपादास्तथापराः
एकनेत्रा द्विनेत्राश्च त्रिनेत्राश्च तथापराः
वृषवानरसिंहाजव्याघ्रसर्पास्थिताः पराः
कूर्मकुक्कुटसर्पादिसमारूढाः सहस्रशः नृत्यंत्यश्च हसंत्यश्च क्रीडासक्ताः परस्परम् ॥ ६.८८.
ह्रस्वदन्त्यो विदंत्यश्च दीर्घदन्त्यो विभीषणाः
लंबकर्ण्यो विकर्ण्यश्च शूर्पकर्ण्यस्तथा पराः
एकवस्त्रा विवस्त्राश्च बहुवस्त्रास्तथा पराः
खङ्गहस्ताः शराहस्ताः कुंतहस्ताश्च भीषणाः शूलमुद्गरहस्ताश्च भुशुंडिकरभूषिताः
अथ ताभ्यां तथाऽऽकर्ण्य ताः सर्वा हर्षसंयुताः
ततस्ते तत्समालोक्य बलं देवीसमुद्रवम्
विषण्णवदनाः सर्वे भयभीता समंततः
बालवृद्धसमोपेतं तेषां राष्ट्रं दुरात्मनाम्
एवं निर्वास्य तद्राष्ट्रं सर्वास्ता हर्षसंयुताः ६.८८.