इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखण्डे हाटकेश्वरक्षेत्रमाहत्म्ये सोमप्रासादमाहात्म्यवर्णनंनाम सप्ताशीतितमोऽध्यायः
चमत्कारी महित्था च महालक्ष्मीस्तथाऽपरा
अंबावृद्धा चतुर्थी च तासां तिस्रः प्रकीर्तिताः
एतस्याः सर्वमाचक्ष्व प्रभावं सूतसंभव
यथात्र संस्थिता पूर्वं तत्सर्वं श्रूयतां मम
चमत्कारमहीपेन पुरमेतद्यदा कृतम् चतस्रो देवता ह्येताः संमतेन द्विजन्मनाम्
अथ तस्य महीपस्य अंबानामाभवत्सुता
उभे ते काशिराजेन परिणीते द्विजोत्तमाः
कस्यचित्त्वथ कालस्य काशिराजस्य भूपतेः
अथ तैर्निहतः संख्ये सभृत्यबलवाहनः
अथांबा चैव वृद्धा च वैधव्यं प्राप्य दुःखदम् ६.८८.
देव्या आराधने यत्नं कृतवत्यौ ततः परम्
यावद्वर्षशतं साग्रं न च तुष्टा सुरेश्वरी
मंत्रैराथर्वणैर्विप्राः क्षुरिकासूक्तसंभवैः
कृतवत्यौ ततो होमं सुसमिद्धे हुताशने
श्वेतवस्त्रा विनिष्क्रांता नारी बालार्कसव्रिभा ॥ तथान्या च सुनेत्रास्या तप्तहाटकसन्निभा
तस्मात्कुण्डाद्विनिष्क्रांता धृतखड्गा भयावहा
प्रोचतुस्ते वरं हृत्स्थं प्रार्थ्यतामिति दुर्लभम्
निहतः संगरे क्रुद्धैर्यवनैः कालपूर्वकैः
युष्मदीय प्रसादेन यथा तेषां परिक्षयः
स्थातव्यं च तथात्रैव उभाभ्यामपि सादरम् ६.८८.
तयोस्तद्वचनं श्रुत्वा उभे ते देवते ततः
एतस्मिन्नंतरे तस्मात्कुण्डाच्छतसहस्रशः
एका गजमुखी तत्र तथान्या तुरगानना
तिर्यञ्च वपुषश्चान्या वक्त्रैर्मानुषसंभवैः
गुह्य स्थानस्थितैर्वक्त्रैरेकाश्चान्या हृदिस्थितैः
एकहस्ता द्विहस्ताश्च पञ्चहस्तास्तथापराः
बहुपादा विपादाश्च एकपादास्तथापराः
एकनेत्रा द्विनेत्राश्च त्रिनेत्राश्च तथापराः
वृषवानरसिंहाजव्याघ्रसर्पास्थिताः पराः