य एकाहेन संपाद्य प्रासादं स्थापयिष्यति
सहस्रगुणितं सम्यक्छ्रद्धापूतेन चेतसा
वंशोच्छेदं समासाद्य नरकं स प्रयास्यति
प्रासादं रात्रिनाथस्य सुपुण्यमपि सद्द्विजाः
प्रासादस्त्वंबरीषेण भूभुजा स विनिर्मितः
तस्यैवोत्तरदिग्भागे द्वितीयोऽन्यः प्रतिष्ठितः ६.८७.
ततश्च तौ महीपालौ तत्प्रभावादुभौ द्विजाः
प्रासादोऽन्यस्तृतीयस्तु क्षेत्रे प्राभासिके तथा
प्रासादत्रयमेतद्धि मुक्त्वात्र धरणीतले एकोऽस्ति नर्मदातीरे पुण्ये रेवोरिसंगमे
एतद्वः सर्वमाख्यातं चन्द्रमाहात्म्यमुत्तमम्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखण्डे हाटकेश्वरक्षेत्रमाहत्म्ये सोमप्रासादमाहात्म्यवर्णनंनाम सप्ताशीतितमोऽध्यायः
चमत्कारी महित्था च महालक्ष्मीस्तथाऽपरा
अंबावृद्धा चतुर्थी च तासां तिस्रः प्रकीर्तिताः
एतस्याः सर्वमाचक्ष्व प्रभावं सूतसंभव
यथात्र संस्थिता पूर्वं तत्सर्वं श्रूयतां मम
चमत्कारमहीपेन पुरमेतद्यदा कृतम् चतस्रो देवता ह्येताः संमतेन द्विजन्मनाम्
अथ तस्य महीपस्य अंबानामाभवत्सुता
उभे ते काशिराजेन परिणीते द्विजोत्तमाः
कस्यचित्त्वथ कालस्य काशिराजस्य भूपतेः
अथ तैर्निहतः संख्ये सभृत्यबलवाहनः
अथांबा चैव वृद्धा च वैधव्यं प्राप्य दुःखदम् ६.८८.
देव्या आराधने यत्नं कृतवत्यौ ततः परम्
यावद्वर्षशतं साग्रं न च तुष्टा सुरेश्वरी
मंत्रैराथर्वणैर्विप्राः क्षुरिकासूक्तसंभवैः
कृतवत्यौ ततो होमं सुसमिद्धे हुताशने
श्वेतवस्त्रा विनिष्क्रांता नारी बालार्कसव्रिभा ॥ तथान्या च सुनेत्रास्या तप्तहाटकसन्निभा
तस्मात्कुण्डाद्विनिष्क्रांता धृतखड्गा भयावहा
प्रोचतुस्ते वरं हृत्स्थं प्रार्थ्यतामिति दुर्लभम्
निहतः संगरे क्रुद्धैर्यवनैः कालपूर्वकैः
युष्मदीय प्रसादेन यथा तेषां परिक्षयः