वयं दौर्भाग्यदोषेण सर्वाः क्लेशं परं गताः ६.८६.
मत्प्रसादादसंदिग्धं भविष्यति सुखोदयम्
अन्यापि या पतित्यक्ता स्त्री मामत्र स्थितां सदा
सा भविष्यति सौभाग्ययु्क्ता पुत्रवती सती
अक्षारलवणाशा या नारी मां पूजयिष्यति
आश्विनस्य सिते पक्षे संप्राप्ते नवमीदिने तस्याः सौभाग्यमत्युग्रं सर्वदा वै भविष्यति
एवमुक्त्वा तु सा देवी विरराम द्विजोत्तमाः
एतस्मिन्नंतरे दक्ष आहूतः शूलपाणिना तदयुक्तं कृतं दक्ष जामाताऽयं यतस्तव
ऊढा अखण्डचारित्रास्तास्त्यक्ता दोषवर्जिताः
ततो मयाऽतिकोपेन नियुक्तो राजयक्ष्मणा
मद्वाक्यान्नात्र संदेहः सत्यमेतन्मयोदितम्॥ ६.८६.
त्वयापि यद्वचः प्रोक्तमसत्यं स्यान्न तत्क्वचित्
दक्षोऽपि बाढमित्येव तत्प्रोक्त्वा च ययौ गृहम्
गच्छमानः क्षयं पक्षं वृद्धिं पक्षं च सद्द्विजाः सर्वसौभाग्यदा स्त्रीणां तस्मिन्क्षेत्रे व्यवस्थिता
यश्चैतत्पुरतस्तस्याः संप्राप्ते चाष्टमीदिने
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सप्तविंशतिकामाहात्म्यवर्णनंनाम षडशीतितमोऽध्यायः
यस्यापि दर्शनादेव मुच्यते पातकैर्नरः
सोमवारे तु संप्राप्ते सोमस्य ग्रहणे नरः
अत्र चंद्रस्य चैवैकः कथं जातः समाश्रयः
एतन्नः सूतपुत्रातिचित्रं मनसि वर्तते
तस्मात्प्रतिष्ठिते तस्मिंस्त्रैलोक्यं स्यात्प्रतिष्ठितम्
एताश्चौषधयः सर्वाः सस्याद्याश्चेह भूतले
तस्माद्ब्रह्मादयो देवाः सोमं प्राप्य क्रमाद्द्विजाः
अग्निष्टोमादयो यज्ञास्तथा सोमे प्रतिष्ठिताः
एतस्मात्कारणात्सोमः सर्वेषामधिकः स्मृतः
यथान्येषां सुरेन्द्राणां हर्म्याणि धरणीतले ६.८७.
यैर्येर्नरैर्निशेशस्य प्रासादो विहितः क्षितौ
यन्महेश्वरहर्म्याणां सहस्रेण भवेच्छुभम्
अथ चन्द्रोत्थहर्म्यस्य माहात्म्यं तद्द्विजोत्तमाः तद्विघ्नार्थमिदं प्रोचुर्मेरुमूर्धानमाश्रिताः
सौम्यर्क्षे सोमवारेण सौम्ये मासि च संस्थिते सकारैः पंचभिर्युक्ते काले सोमस्य मंदिरम्