उपयेमे सुतः पांडोर्यां पार्थश्चारुहासिनीम्
एतद्वः सर्वमाख्यातं माधबीजन्मसम्भवम्
यश्चैतत्पठते मर्त्यो भक्त्या युक्तः शृणोति वा
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णाख्यतीर्थमाहात्म्ये माधव्या अश्वमुख्याः श्रीकृष्णतपश्चर्यया पद्मादत्तशापविमुक्तिपूर्वक सुभद्रात्वप्राप्तिवर्णनंनाम चतुरशीतितमोऽध्यायः
परिणामोद्भवं सर्वं श्रुतमस्माभिरद्य तत्
तेन यत्कमला शप्ता ब्राह्मणेन महात्मना
गजवक्त्रा समुत्पन्ना महाविस्मयकारिणी
सा प्रोक्ता हरिणा तिष्ठ किञ्चित्कालांतरे शुभे
ततोऽहं मेदिनीपृष्ठे ह्यवतीर्य समुद्रजे
अवज्ञायाथ सा तस्य तद्वाक्यं शार्ङ्गधन्विनः
एतत्क्षेत्रं समासाद्य त्रिकालं स्नानमाचरत्
तामुवाच ततो ब्रह्मा वर्षांते तुष्टिमागतः
ब्राह्मणेन सुक्रुद्धेन कस्मिश्चित्कारणांतरे
तस्मात्तद्रूपिणीं भूयो मां कुरुष्व पितामह ६.८५.
तव भद्रे विशेषेण तस्मात्त्वं स्वगृहं व्रज
महत्त्वं ते मया दत्तमद्यप्रभृति शोभने
गजवक्त्रां नरो यस्त्वां पूजयिष्यति भक्तितः
द्वितीयादिवसे यस्त्वां महालक्ष्मीरिति ब्रुवन्
सप्तजन्मांतराण्येव न भविष्यति सोऽधनः
साऽपि हृष्टा गता देवी यत्र तिष्ठति केशवः
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये महालक्ष्मीमाहात्म्यवर्णनंनाम पञ्चाशीतितमोऽध्यायः
नक्षत्रैः स्थापिता देवी वांछितस्य प्रदायिनी
दक्षस्य तनया पूर्वं सप्तविंशतिसंख्यया
तासां मध्ये ऽभवच्चैका रोहिणी तस्य वल्लभा
ततो दौर्भाग्यसंतप्ताः सर्वा स्ता दक्षकन्यकाः
संस्थाप्य देवतां दुर्गां श्रद्धया परया युताः
ततः कालेन महता तासां सा तुष्टिमभ्यगात्
तस्मात्तत्प्रार्थ्यतां चित्ते यद्युष्माकं व्यवस्थितम्
ततः प्रोचुश्च ताः सर्वाः प्रसादात्तव वांछितम्
एकं पत्युः सुखं मुक्त्वा यत्सौभाग्यसमुद्भवम्