तत्प्रभावादिह प्राप्तः सत्यमेतन्मयोदितम्
स सर्वाभ्यधिकां भूतिं प्राप्नुयाद्वरवर्णिनि
एतैस्तत्र कृतं सर्वैर्देवि प्रायोपवेशनम् प्रासादे तत्र निर्मुक्ताः प्राणैर्यांति ममांतिकम्
विस्मयाविष्टहृदया साधु साध्विति साऽब्रवीत्
ततःप्रभृति लोकेऽत्र पुरुषा मुक्तिमिच्छवः
प्रायोपवेशनं कृत्वा श्रद्धया परया युताः
एतद्वः सर्वमाख्यातं सर्वपातकनाशनम् ६.८३.
इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णाख्यमाहात्म्यवर्णनंनाम त्र्यशीतितमोऽध्यायः
माधवीं भगिनीं प्राप्य जन्मांतरमुपस्थिताम्
अश्ववक्त्रां करिष्यामि तपसा सुशुभाननाम् सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि नः
गत्वा विष्णुः सुरैः सार्द्धं प्रचक्रे मंत्रनिश्चयम्
भारावतरणार्थाय दानवानां वधाय च
देवक्या जठरे देवः संजातो दैत्यदर्पहा
तस्यां जज्ञे हलीनाम बलभद्रः प्रतापवान्
तस्यां सा माधवी जज्ञे अश्ववक्त्रस्वरूपधृक् वासुदेवसमायुक्ता विषादं परमं गता
अथ ते यादवाः सर्वे कृतशान्तिकपौष्टिकाः
एवं सा यौवनोपेता तथा दुःखसमन्विता
ततश्च भगवान्विष्णुर्ज्ञात्वा तां भगिनीं तथा ६.८४.
तामादाय गतस्तूर्णं बलदेवसमन्वितः
ब्रह्माणं तोषयामास सम्यग्यज्ञपरायणः
ततस्तुष्टिं गतो ब्रह्मा वर्षांते तस्य शार्ङ्गिणः
तव प्रसादात्सद्वक्त्रा भूयादेतन्ममेप्सितम्
सुभद्रा नाम विख्याता वीरसूः पतिवल्लभा
एतद्रूपां पुमान्योऽत्र पूजयिष्यति भक्तितः
द्वादश्यां माघमासस्य गंधपुष्पानुलेपनैः
या नारी पतिना त्यक्ता वंध्या वा भक्तिसंयुता
भविष्यति सुपुत्राढ्या सुभगा सा सुखान्विता
एवमुक्त्वा चतुर्वक्त्रो विरराम ततः परम् ६.८४.
तामादाय विशालाक्षीं चंद्रबिंबसमाननाम्
अवतीर्णा धरापृष्ठे लक्ष्मीशापप्रपीडिता