तं च निर्वासयामासुस्तस्माद्देशात्पदातिकम्
सोऽपि सर्वैः परित्यक्तस्तेन पापेन कर्मणा
एकाकी भ्रममाणोऽथ सोऽपि कष्टवशं गतः
ततः प्रासादमासाद्य सुपर्णाख्यसमुद्भवम्
ततो दिव्यवपुर्भूत्वाविमानवरमाश्रितः
सेव्यमानोप्सरोभिश्च स्तूयमानश्च किन्नरैः
अथ तं संनिधौ दृष्ट्वा गौरी पप्रच्छ सादरम् अनेन किं कृतं कर्म यत्प्राप्तोऽत्र विभूतिधृक् ॥ ६.८३.
वेणुसंज्ञो धरापृष्ठे कुष्ठव्याधिसमाकुलः
स संत्यक्तो निजैर्दारैः शत्रुवर्गेण धर्षितः
उपवासपरिश्रांतः सांनिध्यं मम यत्र च
तत्प्रभावादिह प्राप्तः सत्यमेतन्मयोदितम्
स सर्वाभ्यधिकां भूतिं प्राप्नुयाद्वरवर्णिनि
एतैस्तत्र कृतं सर्वैर्देवि प्रायोपवेशनम् प्रासादे तत्र निर्मुक्ताः प्राणैर्यांति ममांतिकम्
विस्मयाविष्टहृदया साधु साध्विति साऽब्रवीत्
ततःप्रभृति लोकेऽत्र पुरुषा मुक्तिमिच्छवः
प्रायोपवेशनं कृत्वा श्रद्धया परया युताः
एतद्वः सर्वमाख्यातं सर्वपातकनाशनम् ६.८३.
इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णाख्यमाहात्म्यवर्णनंनाम त्र्यशीतितमोऽध्यायः
माधवीं भगिनीं प्राप्य जन्मांतरमुपस्थिताम्
अश्ववक्त्रां करिष्यामि तपसा सुशुभाननाम् सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि नः
गत्वा विष्णुः सुरैः सार्द्धं प्रचक्रे मंत्रनिश्चयम्
भारावतरणार्थाय दानवानां वधाय च
देवक्या जठरे देवः संजातो दैत्यदर्पहा
तस्यां जज्ञे हलीनाम बलभद्रः प्रतापवान्
तस्यां सा माधवी जज्ञे अश्ववक्त्रस्वरूपधृक् वासुदेवसमायुक्ता विषादं परमं गता
अथ ते यादवाः सर्वे कृतशान्तिकपौष्टिकाः
एवं सा यौवनोपेता तथा दुःखसमन्विता
ततश्च भगवान्विष्णुर्ज्ञात्वा तां भगिनीं तथा ६.८४.
तामादाय गतस्तूर्णं बलदेवसमन्वितः
ब्रह्माणं तोषयामास सम्यग्यज्ञपरायणः