ययातिरुवाच कथं तत्रैव लब्धस्तु कौतुकं मे महामुने
पुलस्त्य उवाच संशयं परमं प्राप्तः सर्वो लोकः क्षुधार्दितः
प्रायो मृतो मृतप्रायः शेषोऽभूद्धरणीतले
एवं कृच्छ्रमनुप्राप्ते मर्त्यलोके नराधिपः
अन्नौषधिरसाभावादस्थिशेषो व्यजायत
चंडालनिलयं प्राप्तः क्षुत्तृषापीडितो भृशम्
तमादाय गृहं प्राप्तः प्रक्षाल्य सलिलेन तु
अभक्ष्यभक्षणं ज्ञात्वा हव्यवाहस्ततो नृप
नष्टौषधिरसे लोके युक्तमेतद्धि सांप्रतम् 7.3.30.
नाभक्ष्यं भक्षयिष्यामि त्यजिष्ये क्षितिमंडलम्
एवं संचिंत्य मनसा सकोपो हव्यवाहनः
प्रणष्टे सहसा वह्नावग्निष्टोमादिकाः क्रियाः
ततो देवगणाः सर्वे संदेहं परमं गताः
त्यक्तस्तु वह्निना मर्त्यस्ततो नाशं गता नराः
तस्मादन्वेष्यतां वह्निर्यत्र तिष्ठति सांप्रतम्
अन्वैषयंस्तथाग्निं ते समंतात्क्षितिमंडले
ततस्ते पुरतो दृष्ट्वा शुकं श्रांता दिवौकसः
प्रणष्टो हव्यवाहोत्र मया दृष्टो महाद्युतिः
शुकेनावेदितो वह्निः शप्त्वा तं मन्युना वृतः 7.3.30.
प्रविवेश शमीगर्भमश्वत्थं तरुसत्तमम्
स तं प्रोवाच ते जिह्वा विपरीता भविष्यति
प्रविष्टो भगवान्वह्निर्यथा देवैर्न लक्ष्यते
अत्राऽसौ तिष्ठते वह्निर्निर्झरे पर्वतस्य च
कृच्छ्रादहं विनिष्क्रांतस्तस्मान्मृत्युमुखात्सुराः
भविष्यसि विजिह्वस्त्वं शप्त्वा तं दर्दुरं नृपः
ततो देवगणाः सर्वे निष्क्रांताः सलिलाश्रयात्
त्वया हीनं जगत्सर्वं नाशं यास्यति सत्वरम्
त्वं मुखं सर्वदेवानां त्वयि लोकाः प्रतिष्ठिताः विनाशमेव यास्यामस्तस्मात्त्वं त्रातुमर्हसि
त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं दिवाकरः 7.3.30.
इंद्राद्या विबुधाः सर्वे त्वदायत्ता हुताशन किमर्थं भगवन्नस्माननागांस्त्यक्तुमिच्छसि