शासनानि प्रदत्तानि ब्राह्मणानां महात्मनाम्
विध्वंसिताः स्त्रियो नैका विधवाश्च विशेषतः ४ कुमार्यो रूपवत्यश्च तथा निज कुलोद्भवाः
देवताराधनं पूजां कर्तुं नैव ददाति सः
प्रोवाचाथ जनान्सर्वान्मां पूजयत सर्वदा
मया तुष्टेन सर्वेषां संपत्स्यति हृदि स्थितम्
तेन शस्त्रविहीनानां विश्वस्तानां वधः कृतः
अचौराः प्रगृहीताश्च चौराः संरक्षिताः सदा ६.८३.
न कृतं च व्रतं तेन श्रद्धापूतेन चेतसा
एवं तस्य नरेन्द्रस्य पापासक्तस्य नित्यशः
ततस्तं व्याधिना ग्रस्तं पुत्रपौत्रविवर्जितम्
तं च निर्वासयामासुस्तस्माद्देशात्पदातिकम्
सोऽपि सर्वैः परित्यक्तस्तेन पापेन कर्मणा
एकाकी भ्रममाणोऽथ सोऽपि कष्टवशं गतः
ततः प्रासादमासाद्य सुपर्णाख्यसमुद्भवम्
ततो दिव्यवपुर्भूत्वाविमानवरमाश्रितः
सेव्यमानोप्सरोभिश्च स्तूयमानश्च किन्नरैः
अथ तं संनिधौ दृष्ट्वा गौरी पप्रच्छ सादरम् अनेन किं कृतं कर्म यत्प्राप्तोऽत्र विभूतिधृक् ॥ ६.८३.
वेणुसंज्ञो धरापृष्ठे कुष्ठव्याधिसमाकुलः
स संत्यक्तो निजैर्दारैः शत्रुवर्गेण धर्षितः
उपवासपरिश्रांतः सांनिध्यं मम यत्र च
तत्प्रभावादिह प्राप्तः सत्यमेतन्मयोदितम्
स सर्वाभ्यधिकां भूतिं प्राप्नुयाद्वरवर्णिनि
एतैस्तत्र कृतं सर्वैर्देवि प्रायोपवेशनम् प्रासादे तत्र निर्मुक्ताः प्राणैर्यांति ममांतिकम्
विस्मयाविष्टहृदया साधु साध्विति साऽब्रवीत्
ततःप्रभृति लोकेऽत्र पुरुषा मुक्तिमिच्छवः
प्रायोपवेशनं कृत्वा श्रद्धया परया युताः
एतद्वः सर्वमाख्यातं सर्वपातकनाशनम् ६.८३.
इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णाख्यमाहात्म्यवर्णनंनाम त्र्यशीतितमोऽध्यायः
माधवीं भगिनीं प्राप्य जन्मांतरमुपस्थिताम्
अश्ववक्त्रां करिष्यामि तपसा सुशुभाननाम् सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि नः