एतस्मात्कारणादस्य निग्रहोऽयं मया कृतः
मम वाक्यानुरोधेन यदिमां मन्यसे शुभे
नान्यथा जायते देव विशेषात्कोपयुक्तया ॥ ६.८२.
तस्मादेष ममादेशादाराध यतु शंकरम्
अथवा पुंडरीकाक्ष रूपमीदृग्व्यवस्थितः
गरुडं दैन्यसंयुक्तं भासपिंडोपमं स्थितम्
एष एव वरश्चास्या द्विपदेश्या द्विजोत्तम
तस्मादाराधय क्षिप्रं त्वं देवं शशिशेखरम्
येन ते तत्प्रभावेन भूयः स्यात्तादृशं वपुः
तच्छ्रुत्वा गरुडस्तूर्णं धृतपाशुपतव्रतः
चांद्रायणानि कृच्छ्राणि तथा सांतपनानि च
स्नात्वा त्रिषवणं पश्चाद्भस्मस्नान परायणः
चक्रे पूजां स्वयं तस्य स्नापयित्वा यथाविधि ६.८२.
एवं तस्य व्रतस्थस्य जपपूजापरस्य च अब्रवीद्वरदोऽस्मीति वृणुष्वेष्टं द्विजोत्तम
पक्षपातः कृतोऽस्माकं तमहं प्रार्थयामि वै
त्वयात्रैव सदा लिंगे स्थेयं हर ममाधुना
त्वं च तद्रूपसंपन्नो विशेषाद्बलवेगभाक्
भविष्यसि न संदेहो मत्प्रसादाद्विहंगम
ततोऽस्य पक्षौ संजातौ तत्क्षणादेव सुन्दरौ
ततः प्रणम्य तं देवं प्रहष्टः स विहंगमः
तस्य चायतने पुण्ये योगात्प्राणान्परित्यजेत् ॥ प्रायोपवेशनं कृत्वा न स भूयोऽपि जायते
अपि पाप समाचारः कौलो वा निर्घृणोऽपि वा ६.८२.
त्रिकालं पूजयन्यस्तु श्रद्धापूतेन चेतसा ॥। संवत्सरं वसेत्सोऽपि शिवलोके महीयते
अथवा सोमवारेण यस्तं पश्यति मानवः
सोऽपि याति न संदेहः पुरुषः शिवमन्दिरे
तस्मात्सर्वप्रयत्नेन कलिकाले विशेषतः
संत्याज्याश्च तथा प्राणास्तदग्रेप्रायसंश्रितैः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णेश्वराख्यमाहात्म्यवर्णनंनाम द्व्यशीतितमोऽध्यायः
अहं वः कीर्तयिष्यामि पुराणे यदुदाहृतम्
वेणुर्नाम महीपालः पुरासीत्सूर्यवंशजः