तपोवीर्यसमोपेता सर्वदेवाभिवंदिता
प्रोवाच वासुदेवं च तां विलोक्य चिरं द्विजाः ॥ ६.८१.
यथा च दीयते दानं यच्च तत्रास्ति चाद्भुतम्
नाश्चर्यं चित्रमेतच्च ब्रह्मचर्यं तदद्भुतम्
विशेषेण च नारीभिरत्र न श्रद्दधाम्यहम्
विकारः खलु कर्तव्यो नाधि काराय यौवनम्
अन्योन्यं मैथुनं चक्रुः कामबाणप्रपीडिताः अप्येताः पुरुषाभावे मन्यंते पंचसायकम्
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः
न परत्र भयादेता मर्यादां विदधुः स्त्रियः
मौनव्रतधराऽप्येवं हृदि कोपं दधार सा
एतस्मिन्नंतरे तस्य पक्षिनाथस्य तत्क्षणात्
मांसपिंडमयो रौद्रः सर्वरोगविवर्जितः ॥ ६.८१.
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णपक्षपातवर्णनंनामैकाशीतितमोऽध्यायः
विस्मितश्चिंतयामास किमिदं सांप्रतं स्थितम्
अपि वज्रप्रहारेण यस्य रोमापि न च्युतम्
नूनमेतेन या स्त्रीणां कृता निंदा महात्मना
अनया पातितौ पक्षौ तपःशक्तिप्रभावतः
ततः प्रसादयामास शांडिलीं गरुडध्वजः
तत्किमर्थं महाभागे त्वया चैवेदृशः कृतः
स्त्रीनिंदा विहितानेन स्वमत्यापि जगद्गुरो
एतस्मात्कारणादस्य निग्रहोऽयं मया कृतः
मम वाक्यानुरोधेन यदिमां मन्यसे शुभे
नान्यथा जायते देव विशेषात्कोपयुक्तया ॥ ६.८२.
तस्मादेष ममादेशादाराध यतु शंकरम्
अथवा पुंडरीकाक्ष रूपमीदृग्व्यवस्थितः
गरुडं दैन्यसंयुक्तं भासपिंडोपमं स्थितम्
एष एव वरश्चास्या द्विपदेश्या द्विजोत्तम
तस्मादाराधय क्षिप्रं त्वं देवं शशिशेखरम्
येन ते तत्प्रभावेन भूयः स्यात्तादृशं वपुः
तच्छ्रुत्वा गरुडस्तूर्णं धृतपाशुपतव्रतः