येन दृष्ट्वा स्वयं पश्चात्प्रकरोमि यथोदितम्
मया दूरे विनिर्मुक्ता तत्कथं तामिहानये
न हि धक्ष्यति तस्मात्त्वं शीघ्रं द्विजवराऽऽनय
एवमुक्तस्ततस्तेन विष्णुना प्रभविष्णुना
अथासौ प्रणिपत्योच्चैर्ब्राह्मणो मधुसूदनम् ६.८१.
सापि कन्या वरारोहा बाल्यभावादनिन्दिता
अथ कोपपरीतांगी महिष्याधर्ममाश्रिता
यस्मान्मे पुरतः पापे कांतस्य मम हर्षिता तस्मादश्वमुखी नूनं विकृता त्वं भविष्यसि
एवं शापे श्रिया दत्ते हाहाकारो महानभूत्
वाङ्मात्रेण न तस्याः स्यात्पत्नीभावः कथंचन
यावन्नाग्निद्विजातीनां प्रत्यक्षं गुरुसंनिधौ
एवमुक्त्वा स विप्रेंद्रस्ततः प्रोवाच केशवम् तस्मात्तत्र प्रयास्यामि यत्र स्यात्तादृशी सुता
तस्मान्नाश्वमुखी ह्येषा जन्मन्यस्मिन्भविष्यति ६.८१.
सेयं तव सुता विप्र बंधुस्थानं समाश्रिता
अवतीर्णस्य भूपृष्ठे देवकार्येण केनचित्
ततोऽहं सुमहत्कृत्वा तपश्चैवानया सह
एवं स भगवान्विप्रं तं सन्तोष्य तदा गिरा
अथ तस्मिन्कथांते स गरुडः पुरुषोत्तमम्
अपूर्वेयं सुरश्रेष्ठ स्त्री वृद्धा तव पार्श्वगा
शांडिलीनाम सर्वज्ञा ब्रह्मचर्यपरायणा
तपोवीर्यसमोपेता सर्वदेवाभिवंदिता
प्रोवाच वासुदेवं च तां विलोक्य चिरं द्विजाः ॥ ६.८१.
यथा च दीयते दानं यच्च तत्रास्ति चाद्भुतम्
नाश्चर्यं चित्रमेतच्च ब्रह्मचर्यं तदद्भुतम्
विशेषेण च नारीभिरत्र न श्रद्दधाम्यहम्
विकारः खलु कर्तव्यो नाधि काराय यौवनम्
अन्योन्यं मैथुनं चक्रुः कामबाणप्रपीडिताः अप्येताः पुरुषाभावे मन्यंते पंचसायकम्
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः
न परत्र भयादेता मर्यादां विदधुः स्त्रियः
मौनव्रतधराऽप्येवं हृदि कोपं दधार सा