मन्नाम्ना ख्यातिमायातु पुण्यमेतज्जलाशयम्
चतुर्द्दश्यां विशेषेण ते यास्यंति परां गतिम्
तव नाम्ना सुपुण्यं हि तीर्थमेतद्भविष्यति स्नानाल्लक्षगुणं दानात्पुण्यं चैव तथाऽक्षयम्
येऽत्र श्राद्धं करिष्यंति मानवाः सुसमाहिताः
अपि कीटपतंगा ये तृषार्ताः सलिले शुभे
किं पुनर्भक्तिसंयुक्ता मानवाः सत्यवादिनः
समायातानि राजेंद्र कपिलायाः प्रभावतः
तान्यारुह्याथ कपिला गोपगोकुलसंकुला 7.3.29.
तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत्
पुलस्त्य उवाच तत्र वह्निः पुरा नष्टो लब्धश्च त्रिदशैरपि
ययातिरुवाच कथं तत्रैव लब्धस्तु कौतुकं मे महामुने
पुलस्त्य उवाच संशयं परमं प्राप्तः सर्वो लोकः क्षुधार्दितः
प्रायो मृतो मृतप्रायः शेषोऽभूद्धरणीतले
एवं कृच्छ्रमनुप्राप्ते मर्त्यलोके नराधिपः
अन्नौषधिरसाभावादस्थिशेषो व्यजायत
चंडालनिलयं प्राप्तः क्षुत्तृषापीडितो भृशम्
तमादाय गृहं प्राप्तः प्रक्षाल्य सलिलेन तु
अभक्ष्यभक्षणं ज्ञात्वा हव्यवाहस्ततो नृप
नष्टौषधिरसे लोके युक्तमेतद्धि सांप्रतम् 7.3.30.
नाभक्ष्यं भक्षयिष्यामि त्यजिष्ये क्षितिमंडलम्
एवं संचिंत्य मनसा सकोपो हव्यवाहनः
प्रणष्टे सहसा वह्नावग्निष्टोमादिकाः क्रियाः
ततो देवगणाः सर्वे संदेहं परमं गताः
त्यक्तस्तु वह्निना मर्त्यस्ततो नाशं गता नराः
तस्मादन्वेष्यतां वह्निर्यत्र तिष्ठति सांप्रतम्
अन्वैषयंस्तथाग्निं ते समंतात्क्षितिमंडले
ततस्ते पुरतो दृष्ट्वा शुकं श्रांता दिवौकसः
प्रणष्टो हव्यवाहोत्र मया दृष्टो महाद्युतिः
शुकेनावेदितो वह्निः शप्त्वा तं मन्युना वृतः 7.3.30.
प्रविवेश शमीगर्भमश्वत्थं तरुसत्तमम्