अथ दृष्ट्वा महत्तेजो वैष्णवं दूरतोऽपि तम्
अत्रैव त्वं द्विजश्रेष्ठ तिष्ठ दूरेऽपि तेजसः
नो चेत्संपत्स्यसे भस्म पतंग इव पावकम्
आवाभ्यां तत्प्रसादेन सोढमेतत्सुदुःसहम्
एवं तं ब्राह्मणं तत्र मुक्त्वा दूरे सुतान्वितम्
दिव्यस्तुतिपरौ मूर्ध्नि धृतहस्तांजलीपुटौ
त्रिःपरिकम्य तं देवमष्टांगं प्रणतौ हरिम् ६.८०.
पादसंवाहनासक्तां विष्णु वक्त्राहितेक्षणाम्
सन्निविष्टां तदभ्याशे सम्यग्ध्यानपरायणाम्
अथ तौ विष्णुना हर्षादुभावपि प्रहर्षितौ
गरुडो वै ब्राह्मणाय यन्मां पृच्छसि केशव
कच्चिन्नेंद्रस्य संजातं भयं दानवसंभवम्
यज्ञभागं लभंते स्म कच्चिद्देवाः सवासवाः
रोरूयमाणा भारार्ता दानवैः पीडिता भृशम्
उग्रसेनसुतः कंसः संभूतः स महासुरः
अरिष्टो धेनुकः केशी प्रलम्बोनाम चापरः
इतश्चेतश्च धावद्भिर्दानवैरेभिरेव च ६.८०.
ऊर्ध्वबाहुस्तथा जातो मर्त्यलोके जनोऽधुना
भारावतरणं देव न करिष्यसि चाशु चेत्
तस्यास्तद्वचनं श्रुत्वा ब्रह्मणा लोककर्तृणा
प्रोक्तव्यो भगवान्वाक्यं त्वया देवो जनार्दनः
तस्माद्भूभितले देव कृत्वा जन्म स्वयं विभो
भारावतरणं भूमेः साकं देवैः सवासवैः
एवमुक्त्वाऽथ तं विष्णुर्नारदं मुनिपुंगवम्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णाख्यमाहात्म्ये विष्णुदर्शनमाहात्म्यवर्णनंनामाशीतितमोऽध्यायः
श्रीगरुड उवाच ममास्ति दयितं मित्रं ब्राह्मणो भृगुवंशजः
न तस्याः सदृशः कांतः प्राप्तस्तेन महात्मना अनुरूपं द्विजश्रेष्ठ यद्यहं संमतस्तव
ततो मयाऽखिला भूमिस्तद्वरार्थं विलोकिता
ततस्त्वं पुण्डरीकाक्ष मम चित्ते व्यवस्थितः
तस्मात्पाणिग्रहं तस्याः स्वीकुरुष्व सुरेश्वर