यस्य वा गुणसन्दोहस्तस्य नो रूपमुत्तमम्
एवं वर्षसहस्रांते भ्रमतस्तस्यभूतलम्
कदाचिदथ तौ श्रान्तौ भ्रममाणावितस्ततः
श्वेतद्वीपं समालोक्य तथान्यां बदरीं शुभाम्
अथ ताभ्यां मुनिर्दृष्टो नारदो ब्रह्मसंभवः
क्व देवः पुंडरीकाक्षः सांप्रतं वर्तते मुने आवाभ्यां संप्रहृष्टाभ्यां न संदृष्टः स केशवः
हाटकेश्वरजे क्षेत्रे स संतिष्ठति सर्वदा ॥ ६.८०.
तस्मात्तद्दर्शनार्थाय गम्यतां तत्र मा चिरम्
अहमप्येव तत्रैव प्रस्थितस्तस्य दर्शनात्
अथ तौ पक्षिविप्रेन्द्रौ स च ब्रह्मसुतो मुनिः
अथ दृष्ट्वा महत्तेजो वैष्णवं दूरतोऽपि तम्
अत्रैव त्वं द्विजश्रेष्ठ तिष्ठ दूरेऽपि तेजसः
नो चेत्संपत्स्यसे भस्म पतंग इव पावकम्
आवाभ्यां तत्प्रसादेन सोढमेतत्सुदुःसहम्
एवं तं ब्राह्मणं तत्र मुक्त्वा दूरे सुतान्वितम्
दिव्यस्तुतिपरौ मूर्ध्नि धृतहस्तांजलीपुटौ
त्रिःपरिकम्य तं देवमष्टांगं प्रणतौ हरिम् ६.८०.
पादसंवाहनासक्तां विष्णु वक्त्राहितेक्षणाम्
सन्निविष्टां तदभ्याशे सम्यग्ध्यानपरायणाम्
अथ तौ विष्णुना हर्षादुभावपि प्रहर्षितौ
गरुडो वै ब्राह्मणाय यन्मां पृच्छसि केशव
कच्चिन्नेंद्रस्य संजातं भयं दानवसंभवम्
यज्ञभागं लभंते स्म कच्चिद्देवाः सवासवाः
रोरूयमाणा भारार्ता दानवैः पीडिता भृशम्
उग्रसेनसुतः कंसः संभूतः स महासुरः
अरिष्टो धेनुकः केशी प्रलम्बोनाम चापरः
इतश्चेतश्च धावद्भिर्दानवैरेभिरेव च ६.८०.
ऊर्ध्वबाहुस्तथा जातो मर्त्यलोके जनोऽधुना
भारावतरणं देव न करिष्यसि चाशु चेत्
तस्यास्तद्वचनं श्रुत्वा ब्रह्मणा लोककर्तृणा