निवारितैश्च दक्षेण सूचिते विहगाधिपे
ततः प्रोवाच संहृष्टो विनतां दयितां निजाम्
येन ते जायते पुत्रः सहस्राक्षाधिको बली
तस्य तद्वचनं श्रुत्वा तत्क्षणादेव संपपौ
एवं तज्जलपानेन तेजोवीर्यसम न्वितः
येनामृतं हृतं वीर्यात्परिभूय पुरंदरम्
यो जज्ञे दयितो विष्णोर्वाहनत्वमुपागतः ६.८०.
येन पूर्वं तपस्तप्त्वा क्षेत्रेऽत्रैव महात्मना
पक्षाप्तिर्येन संजाता यस्य भूयोऽपि तादृशी
मुनय ऊचुः कथं तस्य गतौ पक्षौ गरुडस्य महात्मनः एतन्नो विस्तराद्ब्रूहि सूतपुत्र यथातथम्
गरुडस्य द्विजश्रेष्ठा बालभावादपि प्रभो
तस्य कन्या पुरा जाता माधवी नाम संमता
न देवी न च गन्धर्वी नासुरी न च पन्नगी
अथ तस्या वरार्थाय गरुडं विहगाधिपम्
एतस्या मम कन्याया वरं त्वं विहगाधिप
त्वं भ्रमस्व द्विजश्रेष्ठ गृहीत्वेमां च कन्यकाम्
ततस्तस्याः कुमार्या वै अनुरूपं गुणान्वितम् ६.८०.
एवमुक्तोऽथ विप्रः स तत्क्षणात्कन्यया सह
यंयं पश्यति विप्रः स कुमारं तरुणाकृतिम्
कस्यचिद्रूपमत्युग्रं न कुलं च सुनिर्मलम्
यस्य वा गुणसन्दोहस्तस्य नो रूपमुत्तमम्
एवं वर्षसहस्रांते भ्रमतस्तस्यभूतलम्
कदाचिदथ तौ श्रान्तौ भ्रममाणावितस्ततः
श्वेतद्वीपं समालोक्य तथान्यां बदरीं शुभाम्
अथ ताभ्यां मुनिर्दृष्टो नारदो ब्रह्मसंभवः
क्व देवः पुंडरीकाक्षः सांप्रतं वर्तते मुने आवाभ्यां संप्रहृष्टाभ्यां न संदृष्टः स केशवः
हाटकेश्वरजे क्षेत्रे स संतिष्ठति सर्वदा ॥ ६.८०.
तस्मात्तद्दर्शनार्थाय गम्यतां तत्र मा चिरम्
अहमप्येव तत्रैव प्रस्थितस्तस्य दर्शनात्
अथ तौ पक्षिविप्रेन्द्रौ स च ब्रह्मसुतो मुनिः