प्रगृह्यतां वरोऽस्माकं यः सदा वर्तते हृदि
एतल्लिंगं समभ्यर्च्य तस्याऽस्तु हृदि वांछितम् ॥ ६.७९.
कुंडेऽत्र वांछितं सद्यः सफलं स हि लप्स्यते
निष्कामो वाऽथ संपूज्य लिंगमेतच्छुभावहम्
ऐरावतं समारुह्य दक्षयज्ञे ततो गतः
दक्षोऽपि विधिवद्यज्ञं चकार द्विजसत्तमाः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाह वालखिल्याश्रममाहात्म्यकथनंनामैकोनाशीतितमोऽध्यायः
अथ सुपर्णाख्यमाहात्म्यं भविष्यंति ऋषय ऊचुः यदेतद्भवता प्रोक्तं तेजोवीर्यसमन्वितः
स कथं तत्र संभूत एतन्नो विस्तराद्वद
तैर्मंत्रैर्वालखिल्यैश्च महाऽमर्षसमन्वितैः
निवारितैश्च दक्षेण सूचिते विहगाधिपे
ततः प्रोवाच संहृष्टो विनतां दयितां निजाम्
येन ते जायते पुत्रः सहस्राक्षाधिको बली
तस्य तद्वचनं श्रुत्वा तत्क्षणादेव संपपौ
एवं तज्जलपानेन तेजोवीर्यसम न्वितः
येनामृतं हृतं वीर्यात्परिभूय पुरंदरम्
यो जज्ञे दयितो विष्णोर्वाहनत्वमुपागतः ६.८०.
येन पूर्वं तपस्तप्त्वा क्षेत्रेऽत्रैव महात्मना
पक्षाप्तिर्येन संजाता यस्य भूयोऽपि तादृशी
मुनय ऊचुः कथं तस्य गतौ पक्षौ गरुडस्य महात्मनः एतन्नो विस्तराद्ब्रूहि सूतपुत्र यथातथम्
गरुडस्य द्विजश्रेष्ठा बालभावादपि प्रभो
तस्य कन्या पुरा जाता माधवी नाम संमता
न देवी न च गन्धर्वी नासुरी न च पन्नगी
अथ तस्या वरार्थाय गरुडं विहगाधिपम्
एतस्या मम कन्याया वरं त्वं विहगाधिप
त्वं भ्रमस्व द्विजश्रेष्ठ गृहीत्वेमां च कन्यकाम्
ततस्तस्याः कुमार्या वै अनुरूपं गुणान्वितम् ६.८०.
एवमुक्तोऽथ विप्रः स तत्क्षणात्कन्यया सह
यंयं पश्यति विप्रः स कुमारं तरुणाकृतिम्
कस्यचिद्रूपमत्युग्रं न कुलं च सुनिर्मलम्