वामो बाहुश्च नेत्रं च मुहुः स्फुरति चास्य वै
शिरोहीनां तथा छायां गगने भास्करद्वयम् ६.७९.
न च मंदं न चाकाशे संस्थितां स्वर्धुनीं हरिः
मुक्तकेशीं विवस्त्रां च कृष्णदंतां भयानकाम्
पप्रच्छ भयसंत्रस्तः किमेतदिति मे गुरो
किं मे भविष्यति प्राज्ञ विनाशः सांप्रतं वद
उल्लंघिताः स्थिता मार्गे गोष्पदं तर्त्तुमिच्छवः
तैरेवाथर्वणैर्मंत्रैस्त्वकृतेऽस्ति शचीपते
युष्माकं सुविनाशाय सर्वदेवाधिनायकः
तस्य तद्वचनं श्रुत्वा सहस्राक्षो भयान्वितः
अस्मन्नाशाय मुनिभिर्वालखिल्यैः प्रजापते
तान्वारय स्वयं गत्वा यावन्नो जायते परः ६.७९.
अथ दक्षो द्रुतं गत्वा शक्राद्यैरमरैर्वृतः
किमेतत्क्रियते विप्राः कर्म रौद्रतमं महत्
अथ ते दक्षमालोक्य समायातं स्वमाश्रयम्
अर्घ्यं दत्त्वा यथान्यायं पूजां कृत्वाथ भक्तितः
आदेशो दीयतां शीघ्रं यदर्थमिह चागतः
दक्ष उवाच एतद्रौद्रतमं कर्म सर्वदेवभयावहम्
उल्लंघिता मदोद्रेकात्कृत्वा हास्यं मुहुर्मुहुः
शक्रोच्छेदाय चास्माभिः शकोऽन्यो वीर्यमंत्रतः
तत्कथं मंत्रवीर्यं तत्क्रियते मोघमित्यहो
त्वमेव यदि शक्तः स्यादन्यथा कर्तुमेव हि ६.७९.
नान्यथा शक्यते कर्तुं वेदमन्त्रोद्भवं बलम्
तद्य एष कृतो होमो युष्माभिर्वेदमंत्रतः
सोऽयं मद्वचनाद्राजा भविष्यति पतत्रिणाम्
एतस्य देवराजस्य क्षंतव्यं मम वाक्यतः
एवमुक्त्वाथ तेषां तं सहस्राक्षं भयातुरम्
तेऽपि दृष्ट्वा सहस्राक्षं वेपमानं कृतांजलिम्
भूयो यदि दिवेशानामाधिपत्यं प्रवांछसि नावज्ञेयो बुधैः क्वापि लोकद्वय मभीप्सुभिः
तत्क्षंतव्यं द्विजैः सर्वैर्विशेषाद्दक्ष वाक्यतः