ततस्तरीतु कामास्ते क्लिश्यमाना इतस्ततः
गच्छता तेन मार्गेण मखे दक्षप्रजापतेः जगामाथ समुल्लंघ्य ऐश्वर्यमदगर्वितः॥६.७९.
निवृत्य स्वाश्रमं गत्वा चक्रुर्मंत्रं सनिश्चयम्
शाक्रं पदं समासाद्य यस्मादेतेन पाप्मना
अन्यः शक्रः प्रकर्तव्यो मंत्रवीर्यसमुद्भवः
येन व्यापाद्यते तेन शक्रोऽयं मदगर्वितः
ततस्ते शुचयो भूत्वा स्कंदसूक्तेन पावकम्
गर्भोपनिषदेनैव नीलरुद्रैर्द्विजोत्तमाः
निधाय कलशं मध्ये मंडलस्योदकावृतम्
एतस्मिन्नंतरे शक्रः प्रपश्यति सुदारुणान्
वामो बाहुश्च नेत्रं च मुहुः स्फुरति चास्य वै
शिरोहीनां तथा छायां गगने भास्करद्वयम् ६.७९.
न च मंदं न चाकाशे संस्थितां स्वर्धुनीं हरिः
मुक्तकेशीं विवस्त्रां च कृष्णदंतां भयानकाम्
पप्रच्छ भयसंत्रस्तः किमेतदिति मे गुरो
किं मे भविष्यति प्राज्ञ विनाशः सांप्रतं वद
उल्लंघिताः स्थिता मार्गे गोष्पदं तर्त्तुमिच्छवः
तैरेवाथर्वणैर्मंत्रैस्त्वकृतेऽस्ति शचीपते
युष्माकं सुविनाशाय सर्वदेवाधिनायकः
तस्य तद्वचनं श्रुत्वा सहस्राक्षो भयान्वितः
अस्मन्नाशाय मुनिभिर्वालखिल्यैः प्रजापते
तान्वारय स्वयं गत्वा यावन्नो जायते परः ६.७९.
अथ दक्षो द्रुतं गत्वा शक्राद्यैरमरैर्वृतः
किमेतत्क्रियते विप्राः कर्म रौद्रतमं महत्
अथ ते दक्षमालोक्य समायातं स्वमाश्रयम्
अर्घ्यं दत्त्वा यथान्यायं पूजां कृत्वाथ भक्तितः
आदेशो दीयतां शीघ्रं यदर्थमिह चागतः
दक्ष उवाच एतद्रौद्रतमं कर्म सर्वदेवभयावहम्
उल्लंघिता मदोद्रेकात्कृत्वा हास्यं मुहुर्मुहुः
शक्रोच्छेदाय चास्माभिः शकोऽन्यो वीर्यमंत्रतः