अथ तां विरतां ज्ञात्वा सोऽन्यचित्तां प्रियां नृपः
अन्यस्मिन्दिवसे शस्त्रं सूक्ष्मं वेण्यां निधाय सा ६.७८.
ततस्तेन समं हास्यं कृत्वा क्षत्रियभावजम्
ततो निद्रावशं प्राप्तं तं नृपं सा नृपप्रिया
एवं तस्य फलं जातं सद्यस्तीर्थस्य भंगजम्
अद्यापि तत्र देवेशो रुद्रशीर्षः स तिष्ठति
यस्तस्य पुरतः स्थित्वा जपेद्रुद्रशिरः शुचिः
वांछितं लभते चाशु तस्येशस्य प्रभावतः
रुद्रशीर्षं न संदेहः स याति परमां गतिम्
नित्यं दिनकृतात्पापान्मुच्यते द्विजसत्तमाः
माहात्म्यं सर्वपापानां सद्यो नाशनकारकम् रुद्रशीर्षस्य माहात्म्यं तस्माच्छ्रोतव्यमादरात्
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये रुद्रशीर्ष (जागेश्वर )माहात्म्यवर्णनंनामाष्टसप्ततितमोऽध्यायः
लिंगमस्ति सुविख्यातं सर्वपातकनाशनम्
यमाराध्य च तैः पूर्वं शक्रामर्षसमन्वितैः
प्रकोपो वालखिल्यानां संजज्ञे गरुडः कथम्
चकार विधिवद्यज्ञं संपूर्णवरदक्षिणम्
ततः शक्रादयो देवाः सहायार्थं निमंत्रिताः
तथा वेदविदो विप्रा यज्ञकर्मविचक्षणाः
अथ ते वालखिल्याख्या मुनयः संशितव्रताः प्रस्थिता यज्ञवाटं तं भारार्ताः क्लेशसंयुताः
अथ तेषां समस्तानां मार्गे गोष्पदमागतम्
ततस्तरीतु कामास्ते क्लिश्यमाना इतस्ततः
गच्छता तेन मार्गेण मखे दक्षप्रजापतेः जगामाथ समुल्लंघ्य ऐश्वर्यमदगर्वितः॥६.७९.
निवृत्य स्वाश्रमं गत्वा चक्रुर्मंत्रं सनिश्चयम्
शाक्रं पदं समासाद्य यस्मादेतेन पाप्मना
अन्यः शक्रः प्रकर्तव्यो मंत्रवीर्यसमुद्भवः
येन व्यापाद्यते तेन शक्रोऽयं मदगर्वितः
ततस्ते शुचयो भूत्वा स्कंदसूक्तेन पावकम्
गर्भोपनिषदेनैव नीलरुद्रैर्द्विजोत्तमाः
निधाय कलशं मध्ये मंडलस्योदकावृतम्
एतस्मिन्नंतरे शक्रः प्रपश्यति सुदारुणान्