तस्मादेनां समादाय संशुद्धां पापवर्जिताम्
परकांतेन तां नाद्य शुद्धामपि गृहं नये ॥ ६.७८.
इत्युक्त्वा च द्विजश्रेष्ठस्तां त्यक्त्वापि शुचिव्रतः
सापि तेन परित्यक्ता पतिना हृष्टमानसा
तेनैव परकांतेन विशेषेण रतिक्रियाम्
अथान्ये परलोकस्य भीत्याऽतीव व्यवस्थिताः
दूरतोऽपि समभ्येत्य ते सर्वे तत्र मंदिरे
निमज्जंति ततः कुण्डे तस्मिन्पातकनाशने
एतस्मिन्नंतरे नष्टो धर्मः पत्नीसमुद्भवः
यो यां पश्यति रूपाढ्यां नारीमपि कुलोद्भवाम्
तथा नारी सुरूपाढ्यं यं पश्यति नरं क्वचित्
लिप्यते न च पापेन कथंचित्तकृतेन च ६.७८.
कस्यचित्त्वथ कालस्य तत्र राजा विदूरथः
तस्य भार्याऽभवत्तन्वी तरुणी वररूपधृक्
न तस्याः स जराग्रस्तश्चित्ते वसति पार्थिवः
पार्थिवोऽपि परिज्ञाय तस्यास्तच्च विचेष्टितम्
तत्कुण्डं पूरयामास ततः पांशूत्करैर्द्रुतम्
यश्चैतत्पूरितं कुण्डं पांशुना निखनिष्यति
परदारकृतं पापं तस्य संपत्स्यतेऽखिलम्
जगाम स्वगृहं पश्चात्प्रहृष्टेनांतरात्मना
अथ तां विरतां ज्ञात्वा सोऽन्यचित्तां प्रियां नृपः
अन्यस्मिन्दिवसे शस्त्रं सूक्ष्मं वेण्यां निधाय सा ६.७८.
ततस्तेन समं हास्यं कृत्वा क्षत्रियभावजम्
ततो निद्रावशं प्राप्तं तं नृपं सा नृपप्रिया
एवं तस्य फलं जातं सद्यस्तीर्थस्य भंगजम्
अद्यापि तत्र देवेशो रुद्रशीर्षः स तिष्ठति
यस्तस्य पुरतः स्थित्वा जपेद्रुद्रशिरः शुचिः
वांछितं लभते चाशु तस्येशस्य प्रभावतः
रुद्रशीर्षं न संदेहः स याति परमां गतिम्
नित्यं दिनकृतात्पापान्मुच्यते द्विजसत्तमाः