तस्मात्त्वां पापकर्माणमसत्यपक्षपातिनम्
सप्तार्चिर्भयसंत्रस्तः कृतांजलिरुवाच तम् ॥ ६.७८.
कृतागसाऽपि मे वाक्यं शृणुष्वात्र स्फुटेरितम्
अनया परकांतेन कृतः सह समागमः
परं यस्माद्विशुद्धैषा मया दग्धा न सा द्विज
यत्रानया कृतः संगः परकांतेन वै द्विज
तत्र कृत्वा रतं चित्रं परकांतसमं तदा
ततः प्रक्षालयत्यंगं कुण्डे तत्राग्रतः स्थिते
अत्र पूर्वं विपाप्माऽभूद्ब्रह्मा लोकपितामहः
तस्मान्नास्त्यत्र मे दोषः स्वल्पोऽपि द्विजसत्तम
तस्मादेनां समादाय संशुद्धां पापवर्जिताम्
परकांतेन तां नाद्य शुद्धामपि गृहं नये ॥ ६.७८.
इत्युक्त्वा च द्विजश्रेष्ठस्तां त्यक्त्वापि शुचिव्रतः
सापि तेन परित्यक्ता पतिना हृष्टमानसा
तेनैव परकांतेन विशेषेण रतिक्रियाम्
अथान्ये परलोकस्य भीत्याऽतीव व्यवस्थिताः
दूरतोऽपि समभ्येत्य ते सर्वे तत्र मंदिरे
निमज्जंति ततः कुण्डे तस्मिन्पातकनाशने
एतस्मिन्नंतरे नष्टो धर्मः पत्नीसमुद्भवः
यो यां पश्यति रूपाढ्यां नारीमपि कुलोद्भवाम्
तथा नारी सुरूपाढ्यं यं पश्यति नरं क्वचित्
लिप्यते न च पापेन कथंचित्तकृतेन च ६.७८.
कस्यचित्त्वथ कालस्य तत्र राजा विदूरथः
तस्य भार्याऽभवत्तन्वी तरुणी वररूपधृक्
न तस्याः स जराग्रस्तश्चित्ते वसति पार्थिवः
पार्थिवोऽपि परिज्ञाय तस्यास्तच्च विचेष्टितम्
तत्कुण्डं पूरयामास ततः पांशूत्करैर्द्रुतम्
यश्चैतत्पूरितं कुण्डं पांशुना निखनिष्यति
परदारकृतं पापं तस्य संपत्स्यतेऽखिलम्
जगाम स्वगृहं पश्चात्प्रहृष्टेनांतरात्मना