अथ कर्मावसाने स भगवांस्त्रिपुरांतकः
वैवाहिकी सुरश्रेष्ठ यद्यपि स्यात्सुदुर्लभा
त्वया स्थेयं सदैवात्र नृणां पापविशुद्धये
येन ते सन्निधौ कृत्वा स्वाश्रमं शशिशेखर
चैत्रशुक्लत्रयोदश्यां नक्षत्रे भगदैवते तदैव तस्य पापानि प्रयास्यन्ति च संक्षयम् ॥ ६.७७.
या नारी दुर्भगा वन्ध्या काणा रूपविवर्जिता प्रजावती सुभोगाढ्या सुभगा नात्र संशयः
स्थास्यामि सहितः पत्न्या सत्यात्व द्वचनाद्विधे
विद्यते वेदिमध्यस्थो लोकानां पापनाशनः
एतद्वः सर्वमाख्यातं यथा तस्य पुराऽभवत्
विवाहसमये प्राप्ते प्रारम्भे वा शृणोति यः तस्याऽविघ्नं भवेत्सर्वं कर्म वैवाहिकं च यत्
कन्या च सुखसौभाग्य शीलाचारगुणान्विता
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये हराश्रयवेदिकामाहात्म्यवर्णनंनाम सप्तसप्ततितमोऽध्यायः
वालखिल्यैश्च तैः सर्वैर्मुनिभिः शंसितव्रतैः
सम्यक्छ्रद्धाप्रयत्नेन ब्रह्मणा विहितं तपः
पश्चिमे वालखिल्यैश्च जपस्नानपरायणैः आश्रमे चतुरास्यस्य तद्वो वक्ष्यामि सांप्रतम्
तत्र दुश्चारिणी काचिद्रात्रौ ब्राह्मणवंशजा
अज्ञाता पतिना मात्रा तथान्यैरपि बांधवैः
कस्यचित्त्वथ कालस्य दृष्टा सा केनचि द्द्विजाः
अथासौ कोपसंयुक्तस्तस्या भर्ता सुनिष्ठुरैः
अथ सा धार्ष्ट्यमासाद्य स्त्रीस्वभावं समाश्रिता
किं मां दुर्जनवाक्येन त्वं ताडयसि निष्ठुरैः
अहं त्वां शपथं कृत्वा भक्षयित्वाऽथ वा विषम् ६.७८.
अथ तां ब्राह्मणः प्राह यदि त्वं पापवर्जिता
सा तथेति प्रतिज्ञाय साहसेन समन्विता
शुद्धिं च प्राप्ता सर्वेषां बन्धूनां च द्विजन्मनाम्
एतस्मिन्नन्तरे तस्याः साधुवादो महानभूत्
अहो पापसमाचारो दुष्टोऽयं ब्राह्मणाधमः
एवं स निन्द्यमानस्तु सर्वलोकैर्द्विजोत्तमाः
शापं दातुं मतिं चक्रे ततो वह्नेः सुदुःखितः
मया स्वयं प्रदृष्टेयं जारेण सह संगता