आर्द्रेंधनानि भूरीणि क्षिप्त्वाक्षित्वा विभावसौ
एतस्मिन्नंतरे धूमः प्रादुर्भूतः समंततः
ततो धूमाकुलेनेत्रे भगवांस्त्रिपु रान्तकः
ततो वस्त्रं समुत्क्षिप्य सतीवक्त्रं पितामहः
तस्य रेतः प्रचस्कन्द ततस्तद्वीक्षणाद्द्रुतम् ३८ ततश्च सिकतौघेना तत्क्षणात्पद्मसंभवः
अथ तद्भगवाञ्च्छंभुर्ज्ञात्वा दिव्येन चक्षुषा ६.७७.
किमेतद्विहितं पाप त्वया कर्म विगर्हितम्
त्वं वेत्सि शंकरेणैतत्कर्मजालं न विंदितम् यत्किञ्चित्त्रिषु लोकेषु जंगमं स्थावरं तथा
तस्मात्स्पृश निजं शीर्षं ब्रह्मन्नेतदसंशयम् तावत्तत्र स्थितः साक्षात्तद्रूपो वृषवाहनः
ततो लज्जापरीतांगः स्थितश्चाधोमुखो द्विजाः
अथाऽसौ लज्जयाविष्टः प्रणिपत्य महेश्वरम्
अस्य पापस्य शुद्ध्यर्थं प्राय श्चित्तं वद प्रभो
तपः कुरु समाधिस्थो ममाराधनतत्परः
ख्यातिं यास्यति सर्वत्र नाम्ना रुद्रशिरः क्षितौ
मानुषाणामिदं कृत्यं यस्माच्चीर्णं त्वयाऽऽधुना ॥ तस्मात्त्वं मानुषो भूत्वा विचरिष्यसि भूतले । ६.७७.
यस्त्वां चानेन रूपेण दृष्ट्वा पृच्छां करिष्यति
ततस्ते चेष्टितं सर्वं कौतुकाच्च शृणोति यः
यथायथा जनस्त्वेतत्कृत्यं ते कीर्तयिष्यति
एतदेव हि ते ब्रह्मन्प्रायश्चित्तं प्रकीर्तितम्
एतच्च तव वीर्यं तु पतितं वेदिमध्यगम्
यावन्मात्रैः परिस्पृष्टमेतत्सैकतरेणुभिः
वालखिल्या इति ख्याताः सर्वेंऽगुष्ठप्रमाणकाः
एतस्मिन्नंतरे तस्माद्वेदिमध्याच्च तत्क्षणात् अंगुष्ठकप्रमाणानि निष्क्रान्तानि द्विजोत्तमाः
ततस्ते प्रणिपत्योच्चैः प्रोचुर्देवं पितामहम्
गमिष्यथ परां सिद्धिं येन लोके सुदुर्लभाम् ॥ ६.७७.
ते तथेति प्रतिज्ञाय कृत्वा तत्राश्रमं शुभम्
अथ ब्रह्मापि तत्कर्म सर्वं वैवाहिकं क्रमात्
पतत्सु पुष्पवर्षेषु समन्ताद्गगनांगणात्
पठत्सु विप्रमुख्येषु नृत्यमानासु रागतः
एवं महोत्सवो जज्ञे तत स्तुंबुरुपूर्वकैः