ततः सर्वे सुरास्तत्र स्वयं दक्षेण पूजिताः परिवार्याखिलां वेदिं मंडपांतरवर्तिनीम्
ततः पितामहं प्राह दक्षः प्रीतिपुरःसरम्
स्वयमेव सुताऽस्माकं येन स्यात्सुभगा सती
बाढमित्येव सोऽप्युक्त्वा प्रहृष्टेनांतरात्मना
संप्रदानक्रियां कृत्वा तत्रैव विधिपूर्वकम् मातॄणां पुरतो वेधाः सतीशाभ्यां यथोचितम्
अथ वेदिं समासाद्य गृह्योक्तविधिनाऽखिलम्
यथायथा स रम्याणि वीक्षतेंऽगानि कौतुकात् ६.७७.
तेनैकं वदनं मुक्त्वा तस्या वस्त्रावगुंठितम्
न शंभोर्लज्जया वक्त्रं प्रत्यक्षं स व्यलोकयत्
ततस्तद्दर्शनार्थाय स उपायं व्यलो कयत्
आर्द्रेंधनानि भूरीणि क्षिप्त्वाक्षित्वा विभावसौ
एतस्मिन्नंतरे धूमः प्रादुर्भूतः समंततः
ततो धूमाकुलेनेत्रे भगवांस्त्रिपु रान्तकः
ततो वस्त्रं समुत्क्षिप्य सतीवक्त्रं पितामहः
तस्य रेतः प्रचस्कन्द ततस्तद्वीक्षणाद्द्रुतम् ३८ ततश्च सिकतौघेना तत्क्षणात्पद्मसंभवः
अथ तद्भगवाञ्च्छंभुर्ज्ञात्वा दिव्येन चक्षुषा ६.७७.
किमेतद्विहितं पाप त्वया कर्म विगर्हितम्
त्वं वेत्सि शंकरेणैतत्कर्मजालं न विंदितम् यत्किञ्चित्त्रिषु लोकेषु जंगमं स्थावरं तथा
तस्मात्स्पृश निजं शीर्षं ब्रह्मन्नेतदसंशयम् तावत्तत्र स्थितः साक्षात्तद्रूपो वृषवाहनः
ततो लज्जापरीतांगः स्थितश्चाधोमुखो द्विजाः
अथाऽसौ लज्जयाविष्टः प्रणिपत्य महेश्वरम्
अस्य पापस्य शुद्ध्यर्थं प्राय श्चित्तं वद प्रभो
तपः कुरु समाधिस्थो ममाराधनतत्परः
ख्यातिं यास्यति सर्वत्र नाम्ना रुद्रशिरः क्षितौ
मानुषाणामिदं कृत्यं यस्माच्चीर्णं त्वयाऽऽधुना ॥ तस्मात्त्वं मानुषो भूत्वा विचरिष्यसि भूतले । ६.७७.
यस्त्वां चानेन रूपेण दृष्ट्वा पृच्छां करिष्यति
ततस्ते चेष्टितं सर्वं कौतुकाच्च शृणोति यः
यथायथा जनस्त्वेतत्कृत्यं ते कीर्तयिष्यति
एतदेव हि ते ब्रह्मन्प्रायश्चित्तं प्रकीर्तितम्
एतच्च तव वीर्यं तु पतितं वेदिमध्यगम्