वेदिमध्यगतौ नित्यं पार्वतीपरमेश्वरौ ओषधिप्रस्थमासाद्य पुरं हिम वतः प्रियम्
अत्र नः संशयो जातः श्रद्धेयमपि ते वचः
परं यत्कारणं कृत्स्नं तद्ब्रवीमि निबोध्यताम्
य एष ओषधिप्रस्थे विवाहः प्रागभू त्तयोः
वैवस्वतेऽन्तरे पूर्वं संजातो द्विजसत्तमाः
हाटकेश्वरजे क्षेत्रे यश्चोद्वाहस्तयोरभूत्
पार्वतीहरयोः सूत सोऽस्माभिर्विस्तराच्छ्रुतः
हाटकेश्वरजे क्षेत्रे दक्षयज्ञे मनोहरे ६.७७.
सोऽस्माकं कीर्तनीयश्च त्वया सूतकुलोद्वह
विवाहसमयं सम्यग्देवदेवस्य शूलिनः
ब्रह्मणो दक्षिणांगुष्ठाद्दक्षः प्राचेतसोऽभवत्
तासां ज्येष्ठतमा साध्वी सतीनाम शुचिस्मिता ॥ बभूव कन्यका सर्वैर्गुणैर्युक्ताऽऽयतेक्षणा
न देवी न च गंधर्वी नासुरी न च नागजा
ततः पुण्यतमं क्षेत्रं कन्यादानस्य स क्षमम्
ततश्चोद्वाहयोग्यानि वसुनि विविधान्यपि
अथ चैत्रस्य शुक्लस्य नक्षत्रे भगदैवते
सर्वैः सुरगणैः सार्धं देवविष्णुपुरःसरैः ६.७७.
सिद्धैः साध्यगणैर्भूतैः प्रेतैर्वैनायकैस्तथा
एतस्मिन्नंतरे दक्षः संप्रहृष्टतनूरुहः
वाद्यमानैर्महावाद्यैः सूतमागधबन्दिभिः
ततः सर्वे सुरास्तत्र स्वयं दक्षेण पूजिताः परिवार्याखिलां वेदिं मंडपांतरवर्तिनीम्
ततः पितामहं प्राह दक्षः प्रीतिपुरःसरम्
स्वयमेव सुताऽस्माकं येन स्यात्सुभगा सती
बाढमित्येव सोऽप्युक्त्वा प्रहृष्टेनांतरात्मना
संप्रदानक्रियां कृत्वा तत्रैव विधिपूर्वकम् मातॄणां पुरतो वेधाः सतीशाभ्यां यथोचितम्
अथ वेदिं समासाद्य गृह्योक्तविधिनाऽखिलम्
यथायथा स रम्याणि वीक्षतेंऽगानि कौतुकात् ६.७७.
तेनैकं वदनं मुक्त्वा तस्या वस्त्रावगुंठितम्
न शंभोर्लज्जया वक्त्रं प्रत्यक्षं स व्यलोकयत्
ततस्तद्दर्शनार्थाय स उपायं व्यलो कयत्