द्वादशार्क प्रतीकाशं सर्वलक्षणलक्षितम्
पश्य त्वं सुभ्रूर्मे गात्रं यादृग्रूपं पुनः स्थितम्
सोऽहमत्र स्थितो नित्यं पूजयिष्यामि भास्करम्
त्रयाणामपि तेषां तु साध्वर्चाः शास्त्रसूचिताः
ततस्ताः पुष्पधूपाद्यैः समभ्यर्च्य चिरं द्विजः
भास्करा भक्तलोकस्य सर्वव्याधिविनाशकाः
यस्तान्पश्यति काले स्वे यथोक्ते सूरर्यवासरे
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मुंडीरकालप्रियमूलस्थानप्रतिष्ठावर्णनंनाम षट्सप्ततितमोऽध्यायः
उमामहेश्वरौ सूत हरिश्चन्द्रेण भूभुजा
कृतौ कथयसीत्येवं वेदिमध्यं समाश्रितौ
वेदिमध्यगतौ नित्यं पार्वतीपरमेश्वरौ ओषधिप्रस्थमासाद्य पुरं हिम वतः प्रियम्
अत्र नः संशयो जातः श्रद्धेयमपि ते वचः
परं यत्कारणं कृत्स्नं तद्ब्रवीमि निबोध्यताम्
य एष ओषधिप्रस्थे विवाहः प्रागभू त्तयोः
वैवस्वतेऽन्तरे पूर्वं संजातो द्विजसत्तमाः
हाटकेश्वरजे क्षेत्रे यश्चोद्वाहस्तयोरभूत्
पार्वतीहरयोः सूत सोऽस्माभिर्विस्तराच्छ्रुतः
हाटकेश्वरजे क्षेत्रे दक्षयज्ञे मनोहरे ६.७७.
सोऽस्माकं कीर्तनीयश्च त्वया सूतकुलोद्वह
विवाहसमयं सम्यग्देवदेवस्य शूलिनः
ब्रह्मणो दक्षिणांगुष्ठाद्दक्षः प्राचेतसोऽभवत्
तासां ज्येष्ठतमा साध्वी सतीनाम शुचिस्मिता ॥ बभूव कन्यका सर्वैर्गुणैर्युक्ताऽऽयतेक्षणा
न देवी न च गंधर्वी नासुरी न च नागजा
ततः पुण्यतमं क्षेत्रं कन्यादानस्य स क्षमम्
ततश्चोद्वाहयोग्यानि वसुनि विविधान्यपि
अथ चैत्रस्य शुक्लस्य नक्षत्रे भगदैवते
सर्वैः सुरगणैः सार्धं देवविष्णुपुरःसरैः ६.७७.
सिद्धैः साध्यगणैर्भूतैः प्रेतैर्वैनायकैस्तथा
एतस्मिन्नंतरे दक्षः संप्रहृष्टतनूरुहः
वाद्यमानैर्महावाद्यैः सूतमागधबन्दिभिः