यावत्पश्यामि देहं स्वं कुष्ठव्याधिपरिच्युतम्
तस्मात्त्वमपि विप्रेंद्र भक्त्या तद्भास्करत्रयम्
किमौषधैः किमाहांरैः कटुकैरपि योजितैः
स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं तां पुरीं प्रति ६.७६.
एवमुक्तः स पांथेन तेन विप्रः स कुष्ठभाक्
साऽब्रवीद्युक्तमुक्तं ते पांथेनानेन वल्लभ
अहं त्वया समं तत्र शुश्रूषानिरता सती
एवमुक्तस्तया सोऽथ वित्तमादाय भूरिशः
प्रतिज्ञया गमिष्यामि द्रष्टुं तद्देवतात्रयम्
ततः कृच्छ्रेण महता कुष्ठव्याधिसमाकुलः
तद्दृष्ट्वा सुमहत्क्षेत्रं तापसौघनिषेवितम्
अहं निर्वेदमापन्नो रोगेणाथ बुभुक्षया
तस्मादत्रैव देहं स्वं विहास्यामि न संशयः
एकांतेऽपि महाभाग न सुप्तं जाग्रति त्वयि ॥ ६.७६.
तस्मादेतन्महाक्षेत्रं संप्राप्य त्वां व्यवस्थितम्
दर्शयिष्ये मुखं तेषां त्वया हीना अहं कथम्
तस्मात्त्वया समं नाथ प्रवेक्ष्यामि हुताशनम्
यावतस्तव संजाता उपवासा महामते
एवं तस्या विदित्वा स निश्चयं ब्राह्मणस्तदा
भास्करं मनसि ध्यात्वा यावदग्निं समाददे
तद्दृष्ट्वा विस्मयाविष्टः क एते पुरुषास्त्रयः
व्यावृत्य स्वगृहं गच्छ स्व भार्यासहितो द्विज
मुण्डीरस्वामिनं दृष्ट्वा तथाऽन्यं कालवल्लभम्
मूलस्थानं च कर्तव्यं ततः सस्यप्रभक्षणम् भक्षयामि तथा सस्यं तेन त्यक्ष्यामि जीवितम्॥ ६.७६.
त्वद्भक्त्याकृष्टमनसो ब्रूहि किं करवामहे
ब्राह्मण उवाच यदि यूयं समायाताः स्वयमेव ममांतिकम्
तथाऽत्रैव सदा स्थेयं क्षेत्रे युष्माभिरेव हि
त्वं चापि रोगनिर्मुक्तः सुखं प्राप्स्यस्यनुत्तमम्
प्रासादत्रितयं तस्मादस्मदर्थं निरूपय
एवमुक्त्वा तु ते सर्वे गताश्चाद्दर्शनं ततः