समुद्रवीचिसंसक्तप्रोच्चप्राकारमण्डनम्
तत्राभूद्ब्राह्मणः कश्चित्कुष्ठव्याधिसमन्वितः
तस्य भार्याऽभवत्साध्वी कुलीना शीलमंडना
औषधानि विचित्राणि महार्घ्याण्यपि चाददे ६.७६.
तथा भिषग्वरान्नित्यमानिनाय च सादरम्
यथायथा स गृह्णाति भेषजानि द्विजोत्तमाः
अथैवं वर्तमानस्य तस्य विप्रवरस्य च
अथ विप्रं गृहं प्राप्तं दृष्ट्वा तस्य सती प्रिया
अथ तं स्नातमाचांतं कृताहारं द्विजोत्तमम्
तेजोऽन्वितं यथा भानुं रूपौदार्यगुणान्वितम्
एवं लावण्ययुक्तोऽपि किमेकाकी यथार्तिभाक्
सुस्थितैः सेविता नित्यं जनैर्धर्मव्रतान्वितैः
तस्यामहं कृतावासो गृहस्थाश्रममावहन्
ततः श्रुतं मया तावत्पुराणे स्कान्दसंज्ञिते ६.७६.
ततो निर्वेदमापन्नो भेषजैः क्लेशितश्चिरम्
ततो विनिश्चयं चित्ते कृत्वा गृह्य धनं महत्
ततः प्रातः समुत्थाय नित्यं पश्यामि तं विभुम्
सूर्यवारे विशेषेण निराहारो यतेन्द्रियः
ततः संवत्सरस्यांते तं प्रणम्य दिनाधिपम्
तेनैव विधिना विप्र तस्यापि दिवसेशितुः
ततोऽपि वत्सरस्यांते तं प्रणम्याथ शक्तितः
तेनैव विधिना पूजा तस्यापि विहिता मया
ततः संवत्सरस्यांते स्वप्ने मां भास्करोऽब्रवीत्
परितुष्टोऽस्मि ते विप्र कर्मणाऽनेन भक्तितः ६.७६.
गच्छ शीघ्रं द्विजश्रेष्ठ श्रांतोऽसि निजमंदिरम्
त्वया हृतं पुरा रुक्मं ब्राह्मणस्य महात्मनः
स मया नाशितस्तुभ्यं प्रहृष्टेनाधुना द्विज
दृश्यन्ते ये नरा लोके कुष्ठव्याधिसमाकुलाः
तस्माद्देयं यथाशक्त्या न स्तेयं कनकं बुधैः
एवमुक्त्वा सहस्रांशुस्ततश्चादर्शनं गतः