आत्मा च सततं पुत्र रक्षितव्यः प्रयत्नतः
तिर्यग्भ्यः पापयोनिभ्यः सदा विचरता वने
अस्माकं प्रतिवाचं च शृणु शोकविनाशिनीम् विश्रान्तश्च पुनर्याति तद्वद्भूतसमागमः
स्वमातरं सखीवर्गं ततो द्रष्टुं समागता
अब्रवीच्च ततो वाक्यं पुत्रशोकेन दुःखिता
अनाथमबलं दीनं फेनपं मम पुत्रकम्
भाविनीनामयं पुत्रः सांप्रतं च विशेषतः
चरंतं विषमे स्थाने चरंतं परगोकुले 7.3.29.
क्षमध्वं च महाभागा यास्येऽहं सत्यसंश्रयात्
सर्वास्ता वचनं श्रुत्वा तस्याः शोकसमन्विताः
कपिले नैव गंतव्यं न ते दोषो भविष्यति
अत्र गाथा पुरा गीता मुनिभिर्धर्मवादिभिः
कपिलोवाच नात्मार्थमुपयुञ्जामि स्वल्पमप्यनृतं क्वचित्
अश्वमेधसहस्रं तु सत्यं च तुलया धृतम्
तस्मान्नानृतमात्मानं करिष्ये जीविताशया
यत्त्वं परमसत्येन प्राणांस्त्यजसि दुस्त्यजान्
अवश्यं न च ते भावी मृत्युः सत्यात्कथंचन
अथासौ कपिलां दृष्ट्वा विस्मयोत्फुल्ललोचनः 7.3.29.
नहि सत्यवतां किंचिदशुभं विद्यते क्वचित्
त्वयोक्तं कपिले पूर्वं शपथैरागमाय च
तस्माद्गच्छ मया मुक्ता यत्राऽसौ तनयस्तव
पुलस्त्य उवाच एतस्मिन्नेव काले तु स राजा प्रकृतिं गतः ततोऽब्रवीत्प्रहृष्टात्मा कपिलां सत्यवादिनीम्
किं ते प्रियं करोम्यद्य धेनुके ब्रूहि सत्वरम्
पिपासा बाधतेत्यर्थं सांप्रतं जलमानयम्
नैवानृतं विजानीहि सत्यमेतन्मयोदितम्
सज्यं कृत्वा शरं गृह्य जघान धरणीतलम्
ततः सलिलमुत्तस्थौ निर्मलं शीतलं शुभम्
एतस्मिन्नन्तरे धर्मः स्वयं तत्र समागतः 7.3.29.
तव सत्येन तुष्टोऽहं नास्ति ते सदृशी क्वचित्
सुप्रभेण पदं दिव्यं जरामरणवर्जितम्