बाह्लीकेन सपुत्रेण कर्णेनाथ ससूनुना
अश्वत्थाम्ना पृथक्त्वेन लिङ्गमेकैकमुत्तमम्
तथा संस्थापितं तत्र विष्णुना प्रभविष्णुना
सात्वतेनापि सांबेन बलभद्रेण धीमता
चारुदेष्णादिभिः पुत्रै रुक्मिण्या दशभिः सुतैः
एवं संस्थाप्य लिङ्गानि ते सर्वे कुरुपांडवाः ॥ यादवाश्च सुसंहृष्टा कृतकृत्यास्तदा। ऽभवन्
तत्र स्थित्वा चिरं कालं दत्त्वा दानान्यनेकशः ६.७४.
दत्त्वा तेभ्यो वरान्नागान्ह याञ्जात्याननेकशः
महोक्षांश्च सुवस्त्राणि भूस्थानान्याश्रयांस्तथा
तत आमन्त्र्य तान्सर्वान्प्रणिपत्य मुहुर्मुहुः
तथा तद्धृतराष्ट्रेण लिंगं पातकनाशनम्
यस्तानि पुरुषः सम्यक्पूजयेद्भक्तिभावितः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कौरवपाण्डवयादवकृतलिंग प्रतिष्ठावृत्तांतवर्णनंनाम चतुःसप्ततितमोऽध्यायः
रुद्रेण ब्रह्मणे दत्तं तुष्टेन द्विजसत्तमाः
यदा तु स्थापितं लिंगं हाटकेश्वरसंज्ञितम्
एतत्क्षेत्रं तदा दत्तं शंभुना षण्मुखस्य ह
ब्रह्मणा प्रार्थितेनेदं स्वयमादिममुत्तमम्
कार्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनम्
महासेनस्य देवस्य प्रासादं सुमनोहरम्
तच्छ्रुत्वा विबुधाः सर्वे कौतुकादेत्य सत्वरम्
प्रासादस्योत्तरे देशे प्राच्ये देशे तथा द्विजाः
इष्ट्वा च विबुधाः सर्वे दत्त्वा तेभ्यश्च दक्षिणाम्
ततस्तु देवयजनंनाम तस्य बभूव ह तदत्रैकेन लभते क्रतुना दक्षिणावता ॥ ६.७५.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये यज्ञ भूमिमाहात्म्यवर्णनंनाम पञ्चसप्ततितमोऽध्यायः
यैस्तुष्टैस्त्रिषु लोकेषु मानवो मुक्तिमाप्नुयात्
मुण्डीरं प्रथमं तत्र कालप्रियं तथापरम्
तत्र संक्रमते सूर्यो मुंडीरे रजनीक्षये
तस्मिन्काले नरो भक्त्या पश्येदप्येकमेवच
मध्ये कालप्रियो देवो मूलस्थानं तदन्तरे
तत्कथं ते त्रयस्तत्र संजाताः सूत भास्कराः