तथा पांडुसुताश्चैव ये चान्ये तत्र पार्थिवाः
ते तु संप्रस्थिताः सर्वे मिलिताः कुरुपांडवाः
अथ तत्क्षेत्रमासाद्य दूरे कृत्वा निवेशनम्
तत्र सर्वान्समाहूय ब्राह्मणान्विनयान्विताः
वयं सर्वेऽत्र वांछामो लिगसंस्थापनक्रियाम्
तस्मात्कृत्वा प्रसादं नो दयां च द्विजसत्तमाः
भविष्यथ तथा यूयं होतारः सर्वकर्मसु
यतोऽस्माभिः श्रुता वार्ता कीर्त्यमाना पुरातनी
यथा तेन कृतं श्राद्धं पितुः प्रेतस्य यत्नतः ६.७३.
यथोक्तविधिना तीर्थे नागानां पंचमीदिने ॥। श्रावणे मासि नो मुक्तः पिता तस्य तथापि सः
प्रेतत्वात्सर्पदोषेण संजाता द्विजसत्तमाः तावत्पिता विनिर्मुक्तः प्रेतत्वाद्दारुणाद्द्विजाः
यदत्र क्रियते किंचित्कर्म धर्म्यं द्विजोत्तमाः
प्रार्थयामो विशेषेण तेन दैन्यं समागताः
मन्त्रं चक्रुस्तदर्थं हि किं कृतं सुकृतं भवेत्
एके प्रोचुर्न दास्यामः प्रासादार्थं वसुन्धराम्
पंचक्रोशप्रमाणेन क्षेत्रमेतद्व्यवस्थितम्
अन्ये प्रोचुर्धनोमत्ता यूयं च सुखमाश्रिताः
तस्माद्वयं प्रदास्याम एतेषां हि वसु न्धराम्
तथान्ये मध्यमाः प्रोचुर्यत्र साक्षाज्जनार्दनः ६.७३.
तस्माद्यत्र समायाताः कुरुपांडवयादवाः
याचते यत्र गांगेयः स्वयमेव तथा परः लिंगसंस्थापनार्थाय निषेधस्तत्र नार्हति
तेषां तद्वचनं श्रुत्वा प्रतिपन्नं द्विजोत्तमैः
ततः समेत्य ते सर्वे ब्राह्मणाः कुरुसत्तमान्
प्रासादैः सर्वतो व्याप्तं तत्किं ब्रूमोऽधुना वयम्
तद्भवंतः प्रकुर्वंतु प्राधान्येन यदृच्छया यथाज्येष्ठं यथाश्रेष्ठं पृथक्त्वेन व्यवस्थिताः
अथ हर्षसमायुक्ता धृतराष्ट्रमुखाः क्रमात्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धृतराष्ट्रादिकृतप्रासादस्थापनोद्यमवर्णनंनाम त्रिसप्ततितमोऽध्यायः
लिंगानां स्थापितं तत्र शतमेकोत्तरं द्विजाः
तथा च पांडवैः सर्वैः स्थापितं लिंगपंचकम्
भानुमत्या च गौरीणां स्थापितं च चतुष्टयम्