दानानि च विशिष्टानि ददुरिष्टानि चापरे
चक्रुः श्राद्धक्रियाश्चान्ये पितॄनुद्दिश्य भक्तितः
अन्ये होमक्रिया भूपा जपमन्ये निरर्गलम्
देवतायतनान्यन्ये माहात्म्यसहितानि च
बलिदानैः सुवस्त्रैश्च गन्धपुष्पोपलेपनैः
मंडनैः पुष्पमालाभिः समंताद्द्विजसत्तमाः कृतार्था ब्राह्मणाः सर्वे कृतास्तै स्तत्र भक्तितः
एवं स्नात्वा तथाऽभ्यर्च्य देवान्विप्रान्नृपोत्तमाः
शंसन्तो विस्मया विष्टास्तीर्थान्यायतनानि च
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये धृतराष्ट्रादिकृतहाटकेश्वरक्षेत्रदर्शनवर्णनंनाम द्विसप्ततितमोऽध्यायः
तस्मात्स्थानात्ततो जग्मुर्यत्र द्वारवती पुरी
तत्र गत्वा विवाहं तु चक्रुः संहृष्टमानसाः
नानावादित्रघोषेण वेदध्वनियुतेन च
एवं महोत्सवो जज्ञे तत्र यावद्दिनाष्टकम्
कृतार्थास्तत्र संजाताः सूतमागध बन्दिनः
ततस्तु नवमे प्राप्ते दिवसे कुरुपांडवाः
न वयं पुंडरीकाक्ष तव रामस्य चाश्रयम्
तथापि च प्रगन्तव्यं स्वपुरं प्रति माध व
स्थितानामत्र युष्माकं तत्किमौत्सुक्यमागतम्
तस्मादत्रैव तिष्ठामः सहिताः कुरुपांडवाः ६.७३.
शस्त्रशिक्षाक्रियाभिश्च दमनेन च दन्तिनाम्
परं शृणुष्व मे वाक्यं यदर्थं ह्युत्सुका वयम्
आनर्तविषयेऽस्माभिरागच्छद्भिस्तवांतिकम् तत्र लिंगानि दृष्टानि भूपतीनां महात्मनाम्
सूर्यचन्द्रान्वयोत्थानामन्येषां च महात्मनाम्
देवानां दानवानां च मुनीनां च विशेषतः
ततश्च कुरुमुख्यानां पांडवानां च माधव
ते वयं तत्र गत्वाशु यथाशक्त्या यथेच्छया
एतस्मात्कारणात्तूर्णं चलिता वयमच्युत
तस्मादाज्ञापयस्वाद्य कृत्वा चित्तं दृढं विभो
तापसैः कीर्तितं नित्यं ममान्यैस्तीर्थयात्रिकैः ॥ ६.७३.
तस्मात्तत्र समेष्यामो युष्माभिः सहिता वयम्