अत्राहं चैव नि र्मुक्तः स्त्रीहत्योद्भवपातकात्
येन सर्वाणि पश्यामस्तीर्थान्यायतनानि च
अथ तद्वचनाद्राजा धृतराष्ट्रोंऽबिकासुतः
जगाम सत्वरं तत्र यत्र तत्क्षेत्रमुत्तमम्
ब्रह्मघोषेण महता नादितं सर्वतोदिशम् क्रीडामृगैश्च संकीर्णं धावद्भिर्बहुभिस्तथा
ततो निवार्य सैन्यं स्वमुपद्रवभयान्नृपः
भीष्मेण सोमदत्तेन बाह्लीकेन समन्वितः
सौबलेन च कर्णेन तथान्यैरपि पार्थिवैः
तेऽपि सर्वे महात्मानः क्षत्रियास्तत्र संस्थिताः
स्नानं चक्रुर्विधानेन तीर्थेषु द्विजसत्तमाः ६.७२.
दानानि च विशिष्टानि ददुरिष्टानि चापरे
चक्रुः श्राद्धक्रियाश्चान्ये पितॄनुद्दिश्य भक्तितः
अन्ये होमक्रिया भूपा जपमन्ये निरर्गलम्
देवतायतनान्यन्ये माहात्म्यसहितानि च
बलिदानैः सुवस्त्रैश्च गन्धपुष्पोपलेपनैः
मंडनैः पुष्पमालाभिः समंताद्द्विजसत्तमाः कृतार्था ब्राह्मणाः सर्वे कृतास्तै स्तत्र भक्तितः
एवं स्नात्वा तथाऽभ्यर्च्य देवान्विप्रान्नृपोत्तमाः
शंसन्तो विस्मया विष्टास्तीर्थान्यायतनानि च
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये धृतराष्ट्रादिकृतहाटकेश्वरक्षेत्रदर्शनवर्णनंनाम द्विसप्ततितमोऽध्यायः
तस्मात्स्थानात्ततो जग्मुर्यत्र द्वारवती पुरी
तत्र गत्वा विवाहं तु चक्रुः संहृष्टमानसाः
नानावादित्रघोषेण वेदध्वनियुतेन च
एवं महोत्सवो जज्ञे तत्र यावद्दिनाष्टकम्
कृतार्थास्तत्र संजाताः सूतमागध बन्दिनः
ततस्तु नवमे प्राप्ते दिवसे कुरुपांडवाः
न वयं पुंडरीकाक्ष तव रामस्य चाश्रयम्
तथापि च प्रगन्तव्यं स्वपुरं प्रति माध व
स्थितानामत्र युष्माकं तत्किमौत्सुक्यमागतम्
तस्मादत्रैव तिष्ठामः सहिताः कुरुपांडवाः ६.७३.
शस्त्रशिक्षाक्रियाभिश्च दमनेन च दन्तिनाम्