या गतिर्मातृभक्तानां ध्रुवं सा मे भविष्यति
अथवाऽत्रैव तिष्ठ त्वं शपथाः संतु मे तव
जनन्या विप्रयुक्तस्य जीवितं न हि मे प्रियम्
नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः
न चायमन्यभूतानां मृत्युः स्यादन्यमृत्युतः
अपश्चिममिदं पुत्र मातुः सन्देशमुत्तमम्
वने चर सदा वत्स अप्रमादपरो भव
न च लोभेन चर्तव्यं विषमस्थं तृणं क्वचित् 7.3.29.
समुद्रमटवीं युद्धं विशंते लोभमोहिताः
लोभात्प्रमादादाश्वासात्पुरुषो बाध्यते त्रिभिः
आत्मा च सततं पुत्र रक्षितव्यः प्रयत्नतः
तिर्यग्भ्यः पापयोनिभ्यः सदा विचरता वने
अस्माकं प्रतिवाचं च शृणु शोकविनाशिनीम् विश्रान्तश्च पुनर्याति तद्वद्भूतसमागमः
स्वमातरं सखीवर्गं ततो द्रष्टुं समागता
अब्रवीच्च ततो वाक्यं पुत्रशोकेन दुःखिता
अनाथमबलं दीनं फेनपं मम पुत्रकम्
भाविनीनामयं पुत्रः सांप्रतं च विशेषतः
चरंतं विषमे स्थाने चरंतं परगोकुले 7.3.29.
क्षमध्वं च महाभागा यास्येऽहं सत्यसंश्रयात्
सर्वास्ता वचनं श्रुत्वा तस्याः शोकसमन्विताः
कपिले नैव गंतव्यं न ते दोषो भविष्यति
अत्र गाथा पुरा गीता मुनिभिर्धर्मवादिभिः
कपिलोवाच नात्मार्थमुपयुञ्जामि स्वल्पमप्यनृतं क्वचित्
अश्वमेधसहस्रं तु सत्यं च तुलया धृतम्
तस्मान्नानृतमात्मानं करिष्ये जीविताशया
यत्त्वं परमसत्येन प्राणांस्त्यजसि दुस्त्यजान्
अवश्यं न च ते भावी मृत्युः सत्यात्कथंचन
अथासौ कपिलां दृष्ट्वा विस्मयोत्फुल्ललोचनः 7.3.29.
नहि सत्यवतां किंचिदशुभं विद्यते क्वचित्
त्वयोक्तं कपिले पूर्वं शपथैरागमाय च