शीर्णानि चलिते तस्मिन्पर्वते व्यथिता द्विजाः
हतशेषास्ततो विप्रा गत्वा स्कन्दं क्रुधान्विताः
नाशं नीता वयं सर्वे सपुत्रपशुबाधवाः
यद्धतो दानवो रौद्रो नान्यथा द्विजसत्तमाः
प्रसादः क्रियतां तस्मान्मान्या मे ब्राह्मणाः सदा
पुनर्जीवितसंयुक्तान्करिष्यामि न संशयः ६.७१.
एवमुक्त्वा समादाय तां शक्तिं रुधिरोक्षिताम्
ततः प्रोवाच संहृष्टो देवतानां चतुष्टयम्
युष्माभिर्निश्चलः कार्यो भूयोऽयं नगसत्तमः
युष्माकं ब्राह्मणाः सर्वे पूजां दास्यंति सर्वदा
बाढमित्येव ताः प्रोच्य चतुर्दिक्षु ततश्च तम् ततश्चामृतमादाय मृतानपि द्विजोत्तमान्
ततस्ते ब्राह्मणास्तत्र संहृष्टा वरमुत्तमम् सदैव ख्यातिमायातु एतन्मे हृदि वांछितम्
चमत्कारपुरं तद्वत्सांप्रतं सुरसत्तम
पूजां तव करिष्यामः कृत्वा प्रासादमुत्त मम्
सर्वाः संपूजयिष्यामः सर्वकृत्येषु सादरम् विशेषात्पूजयिष्यामः षष्ठ्यां श्रद्धासमन्विताः ॥ ६.७१.
स्थितस्तत्रैव तद्वा क्याज्ज्ञात्वा तत्क्षेत्रमुत्तमम्
यस्तं पूजयते भक्त्या चैत्रषष्ठ्यां सुभावतः
तस्यां शक्तौ नरो यश्च कुर्यात्पृष्ठिनिघर्षणम् स न स्याद्रोगसंयुक्तो यावत्संवत्सरं द्विजाः
एवं तत्र धृता शक्तिस्तेन स्कन्देन धीमता
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये स्कन्दस्थापितशक्तिमाहात्म्यवर्णनंनामैकसप्ततितमोऽध्यायः
दुर्योधनेन चालोक्य सर्वपापैः प्रमुच्यते
तत्र संस्थापितं लिगं वद त्वं रौमहर्षणे
सर्वलक्षणसंपन्ना रूपौ दार्यगुणान्विता
तां ददावथ पत्न्यर्थे धार्तराष्ट्राय धीमते
अथ नागपुरात्सर्वे भीष्म द्रोणादयश्च ये
तथा पांडुसुताः पंच परिवारसमन्विताः जग्मुर्द्वारवतीं हृष्टाः सैन्येन महतान्विताः
अथ क्रमेण गच्छंतस्ते सर्वे कुरुपाण्डवाः
सर्वपापहरं पुण्यं यत्र तत्क्षेत्रमुत्तमम्
अथ प्राह विशुद्धात्मा वृद्धः कुरुपितामहः
हाटकेश्वरदेवस्य सर्वपातकनाशनम् ॥ ६.७२.