शंकरोऽप्यक्षिपत्तत्र कामबाणप्रपीडितः
पावकोऽपि भृशं तेन कल्पाग्निसदृशेन च
एतस्मिन्नंतरे प्राप्ता भ्रममाणा इतस्ततः
तासां निदेशयामास स्वयमेव शतक्रतुः
अत्र संपत्स्यते पुत्रो द्वादशार्कसमप्रभः
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खंडे हाटकेश्वरक्षेत्रमाहात्म्ये कार्तिकेयोत्पत्तिवृत्तांतवर्णनंनाम सप्ततितमोऽध्यायः ॥ ६.७०.
सूतिकागृहधर्मे यत्तच्चक्रुस्तस्य सर्वशः
अथान्यदिवसे बालो द्वादशार्कसमद्युतिः
यथासौ जातमात्रस्तु प्ररुरोद सुदुःखितः
महासेनोऽपि संवीक्ष्य मातॄस्ताः समुपागताः
एकैकस्याः पृथक्तेन प्रपपौ प्रयतः स्तनम्
एतस्मिन्नंतरे प्राप्ता ब्रह्मविष्णुशिवादयः
महोत्सवोऽथ संजज्ञे तस्मिन्स्थाने निरर्गलः
रंभाद्या ननृतुस्तस्य विलासिन्यो दिवौकसाम्
ततस्तु देवताः सर्वास्तस्य नाम प्रचक्रिरे
अथ तस्य कुमा रस्य तदा तत्राभिषेचनम् ६.७१.
तस्य शक्तिः स्वयं दत्ता विधिनाऽद्भुतदर्शना
मयूरो वाहनार्थाय त्र्यंबकेण सुशीघ्रतः
ततोऽभीष्टानि शस्त्राणि देवैः सर्वैः पृथक्पृथक्
ततस्तमग्रतः कृत्वा सेनानाथं सुरेश्वराः
तारकोऽपि समालोक्य देवान्स्वयमुपागतान्
ततोऽभूत्सुमहद्युद्धं देवानां दानवैः सह
अथ स्कन्देन संवीक्ष्य दूरस्थं तारकं रणे
अथासौ हृदयं भित्त्वा तस्य दैत्यस्य दारुणा
तारकस्तु गतो नाशं मुक्तः प्राणैश्च तत्क्षणात्
स्तोत्रैर्बहुविधैः स्तुत्वा प्रोचुस्तस्मिन्हते सति ॥ गताश्च त्रिदिवं तूर्णं सह शक्रेण निर्भयाः ।१ ६.७१.
स्कन्दोऽपि तां समादाय शक्तिं तत्र पुरोत्तमे
ऋषय ऊचुः रक्तशृंगः कथं तेन निश्चलोऽपि दृढीकृतः
रक्तशृङ्गः प्रचलितः स्वस्थानादतिवेगतः
तस्य दैत्यस्य पातेन यथान्ये पर्व तोत्तमाः