तारकेण हतोत्साहास्तिष्ठंति गिरिरोधसि
तस्मादेतान्समाभाष्य समाश्वास्य च सादरम्
अथ तानाह्वयामाम तत्क्षणात्त्रिपुरांतकः
स्वस्थानाच्चलिते शुक्रे कृतो मोघोद्य वायुना
एतद्वीर्यं मया धैर्यात्स्तंभितं लिंगमध्यगम्
येन संजायते पुत्रो दानवांतकरः परः
एतत्कल्पाग्निसंकाशं धर्तुं शक्नोति नापरः ६.७०.
येन तत्र प्रमुञ्चामि सुताय विजयाय च
अथ प्राहुः सुराः सर्वे वह्निं संश्लाघ्य सादराः
ततः प्रसारयामास स्ववक्त्रं पावको द्रुतम्
शंकरोऽप्यक्षिपत्तत्र कामबाणप्रपीडितः
पावकोऽपि भृशं तेन कल्पाग्निसदृशेन च
एतस्मिन्नंतरे प्राप्ता भ्रममाणा इतस्ततः
तासां निदेशयामास स्वयमेव शतक्रतुः
अत्र संपत्स्यते पुत्रो द्वादशार्कसमप्रभः
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खंडे हाटकेश्वरक्षेत्रमाहात्म्ये कार्तिकेयोत्पत्तिवृत्तांतवर्णनंनाम सप्ततितमोऽध्यायः ॥ ६.७०.
सूतिकागृहधर्मे यत्तच्चक्रुस्तस्य सर्वशः
अथान्यदिवसे बालो द्वादशार्कसमद्युतिः
यथासौ जातमात्रस्तु प्ररुरोद सुदुःखितः
महासेनोऽपि संवीक्ष्य मातॄस्ताः समुपागताः
एकैकस्याः पृथक्तेन प्रपपौ प्रयतः स्तनम्
एतस्मिन्नंतरे प्राप्ता ब्रह्मविष्णुशिवादयः
महोत्सवोऽथ संजज्ञे तस्मिन्स्थाने निरर्गलः
रंभाद्या ननृतुस्तस्य विलासिन्यो दिवौकसाम्
ततस्तु देवताः सर्वास्तस्य नाम प्रचक्रिरे
अथ तस्य कुमा रस्य तदा तत्राभिषेचनम् ६.७१.
तस्य शक्तिः स्वयं दत्ता विधिनाऽद्भुतदर्शना
मयूरो वाहनार्थाय त्र्यंबकेण सुशीघ्रतः
ततोऽभीष्टानि शस्त्राणि देवैः सर्वैः पृथक्पृथक्
ततस्तमग्रतः कृत्वा सेनानाथं सुरेश्वराः