सहस्रं वत्सराणां तु रतासक्तस्य शूलिनः
तस्माद्गच्छामहे तत्र यत्र देवो महेश्वरः
ततस्तत्रैव संजग्मुः सर्वे देवाः सवासवाः
अथ कैलासमासाद्य यावद्यांति भवांतिकम्
रहस्ये भगवान्सार्धं पार्वत्या समवस्थितः
ततस्तैर्विबुधैः सर्वैः प्रेषितस्तत्र चानिलः
अथ वायुर्गतस्तत्र यत्रास्ते भगवाञ्छिवः ६.७०.
अथ प्रचलिते शुक्रे स्थानादप्राप्तयोनिके
ततो व्रीडा समोपेतस्तत्क्षणादेव चोत्थितः
अब्रवीदथ तं वायुं विनयावनतं स्थितम्
तारकेण हतोत्साहास्तिष्ठंति गिरिरोधसि
तस्मादेतान्समाभाष्य समाश्वास्य च सादरम्
अथ तानाह्वयामाम तत्क्षणात्त्रिपुरांतकः
स्वस्थानाच्चलिते शुक्रे कृतो मोघोद्य वायुना
एतद्वीर्यं मया धैर्यात्स्तंभितं लिंगमध्यगम्
येन संजायते पुत्रो दानवांतकरः परः
एतत्कल्पाग्निसंकाशं धर्तुं शक्नोति नापरः ६.७०.
येन तत्र प्रमुञ्चामि सुताय विजयाय च
अथ प्राहुः सुराः सर्वे वह्निं संश्लाघ्य सादराः
ततः प्रसारयामास स्ववक्त्रं पावको द्रुतम्
शंकरोऽप्यक्षिपत्तत्र कामबाणप्रपीडितः
पावकोऽपि भृशं तेन कल्पाग्निसदृशेन च
एतस्मिन्नंतरे प्राप्ता भ्रममाणा इतस्ततः
तासां निदेशयामास स्वयमेव शतक्रतुः
अत्र संपत्स्यते पुत्रो द्वादशार्कसमप्रभः
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खंडे हाटकेश्वरक्षेत्रमाहात्म्ये कार्तिकेयोत्पत्तिवृत्तांतवर्णनंनाम सप्ततितमोऽध्यायः ॥ ६.७०.
सूतिकागृहधर्मे यत्तच्चक्रुस्तस्य सर्वशः
अथान्यदिवसे बालो द्वादशार्कसमद्युतिः
यथासौ जातमात्रस्तु प्ररुरोद सुदुःखितः
महासेनोऽपि संवीक्ष्य मातॄस्ताः समुपागताः