न च ते विजयं प्रापुस्तथापि द्विजसत्तमाः
अथ प्राह सहस्राक्षो भयत्रस्तो बृहस्पतिम्
यथायथा रणार्थाय सदुपायान्करोम्यहम्
तदुपायं सुराचार्य स्वबुद्ध्या त्वं प्रचिन्तय ॥ येन मे स्याज्जयो युद्धे तव कीर्तिरनिन्दिता
प्रहृष्टवदनो ज्ञात्वा जयोपायं महाहवे
मया शक्र परिज्ञातः स उपायो महाहवे
यदाभीष्टं वरं तेन प्रार्थितस्त्रिपुरांतकः
अजेयः सर्वदेवानां त्वत्प्रसादादहं विभो ६.७०.३० न तं स्वयं महादेवः स्वशिष्यं सूदयिष्यति
यो वै पिता स पुत्रः स्याच्छ्रुतिवाक्यमिदं स्मृतम्
येन सेनाधिपत्ये तं विनियोज्य महाहवम्
एष एव उपायोऽत्र मया ते परिकीर्तितः
ततो देवगणैः सर्वैः समेतः पाकशासनः ॥। तमर्थं प्रोक्तवाञ्छंभुं विनयावनतः स्थितः
सुतस्य जननार्थाय कुरु यत्नं वृषध्वज
प्राप्नोम्यहं च संग्रामे विजयं त्वत्प्रसादतः
नान्यथा विजयो मे स्यात्संग्रामे दानवैः सह॥। इति मां प्राह देवेज्यो ज्ञात्वा सम्यङ्महामतिः
अथोवाच विहस्योच्चैः शंकरस्त्रिदशेश्वरम्
पुत्रमुत्पादयिष्यामि सर्वदैत्यविनाशकम् ६.७०.
एवमुक्त्वा महादेवो गत्वा कैलास पर्वतम्
हावैर्भावैः समोपेतं हास्यैरन्यैस्तदात्मिकैः
अथ देवगणाः सर्वे भयसंत्रस्तमानसाः
सहस्रं वत्सराणां तु रतासक्तस्य शूलिनः
तस्माद्गच्छामहे तत्र यत्र देवो महेश्वरः
ततस्तत्रैव संजग्मुः सर्वे देवाः सवासवाः
अथ कैलासमासाद्य यावद्यांति भवांतिकम्
रहस्ये भगवान्सार्धं पार्वत्या समवस्थितः
ततस्तैर्विबुधैः सर्वैः प्रेषितस्तत्र चानिलः
अथ वायुर्गतस्तत्र यत्रास्ते भगवाञ्छिवः ६.७०.
अथ प्रचलिते शुक्रे स्थानादप्राप्तयोनिके
ततो व्रीडा समोपेतस्तत्क्षणादेव चोत्थितः
अब्रवीदथ तं वायुं विनयावनतं स्थितम्