तस्मात्सर्वप्रयत्नेन तत्र शस्त्रहतस्य च
उपसर्ग मृतानां च सर्पाग्निविषबन्धनैः
यः पितॄंस्तर्पयेत्तत्र प्रेतपक्षे जलैरपि
एतद्वः सर्वमाख्यातं रामह्रदसमुद्भवम्
श्राद्धकाले नरो भक्त्या यश्चैतत्पठति स्वयम्
पर्वकाले ऽथवा प्राप्ते पठेद्ब्राह्मणसंनिधौ
शृणुयाद्वापि यो भक्त्या कीर्त्यमानमिदं नरः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्या संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रामह्रदोत्पत्तिवृत्तान्तवर्णनंनामैकोनसप्ततितमोऽ ध्यायः
कार्तिकेयेन निर्मुक्ता हत्वा वै तारकं रणे
तथास्ति सुमहत्कुण्डं स्वच्छोदकसमावृतम् स पापान्मुच्यते सद्य आजन्ममरणांति कात्
किमर्थं स्वामिना तत्र किंप्रभावा वद स्वयम्
हिरण्याक्षस्य दायादस्त्रैलोक्यस्य भयावहः
स ज्ञात्वा जनकं ध्वस्तं विष्णुना प्रभविष्णुना
यावद्वर्षसहस्रांतं शीर्णपर्णा शनः स्थितः
वरुपूजोपहारैश्च नैवेद्यैर्विविधैस्ततः
ज्ञात्वा रुद्रमसंतुष्टं ततो रौद्रं तपोऽकरोत्
ततस्तुष्टो महादेवो वृषारूढ उमापतिः
तत्र प्रोवाच संहृष्टस्तारनादेन नादयन् ६.७०.
भोभोस्तारक तुष्टोऽस्मि साहसं मेदृशं कुरु
अजेयः सर्वदेवानां त्वत्प्रसादादहं विभो
त्वया यत्प्रार्थितं दैत्य त्वमेको बलवानिह
एवमुक्त्वा महादेवः स्वमेव भवनं गतः
ततो दानवसैन्येन महता परिवारितः
अथाभवन्महायुद्धं देवानां दानवैः सह
तत्राभवत्क्षयो नित्यं देवानां रणमूर्धनि
ततश्चक्रुरुपायांस्ते विजयाय दिवौकसः
अन्यान्यपि शरीरस्य रक्षणार्थं प्रयत्नतः
ससृजुस्ते सुराधीशा दानवेभ्यो दिवानिशम् ॥ ६.७०.
मुद्गरा भिंडिपालाश्च शतघ्न्योऽथ वरेषवः विशेषाहवसंबन्धव्यूहानां प्रक्रियाश्च याः
तथान्यानि विचित्राणि कूटयुद्धान्यनेकशः